________________ सूत्रम् 149 राशि श्रीसमवाया श्रीअभय० वृत्तियुतम् // 237 // प्रज्ञापना वृत्तत्र्यम्रचतुरस्रक्रमेण प्रत्यवगन्तव्याः, एतेषांच मध्ये इन्द्रकाः सीमन्तकादयो भवन्ति, आवलिकाबाह्यास्तु पुष्पावकीर्णा दिग्विदिशामन्तरालेषु भवन्ति, नानासंस्थानसंस्थिता इति निरयसंस्थानव्यवस्था, तत्र च बाहुल्यमङ्गीकृत्येदमभिधीयतेअंतो वट्टे त्यादि, उक्तं च सूत्रकृद्वृत्तिकृता- नरकाः सीमन्तकादिका बाहुल्यमङ्गीकृत्यान्तः मध्ये वृत्ता बहिरपि चतुरस्रा अधश्च | क्षुरप्रसंस्थानसंस्थिताः, एतच्च संस्थानं पुष्पावकीर्णकानाश्रित्योक्तं तेषामेव प्रचुरत्वात्, आवलिकाप्रविष्टास्तु वृत्तत्र्यम्रचतुरस्रसंस्थाना भवन्ती ति, तत्रान्तर्वृत्ता मध्ये शुषिरमाश्रित्य बहिश्च चतुरस्रा कुड्यपरिधिमाश्रित्य, यावत्करणादिदं दृश्यं यदुत अधः क्षुरप्रसंस्थानसंस्थिताः- भूतलमाश्रित्य क्षुरप्राकारास्तद्भूतलस्य संचारिसत्त्वपादच्छेदकत्वात् अन्ये त्वाहुः- तेषामधस्तनोंशः क्षुरप्र इवाग्रेऽग्रेप्रतलो विस्तीर्णश्चेति क्षुरप्रसंस्थानता, तथा 'निच्चंधयारतमसा ववगयगहचंदसूरनक्खत्तजोइसप्पहा मेयवसापूयरुहिरमंसचिक्खल्ललित्ताणुलेवणतला असुईवीसा परमदुब्भिगंधा काऊअगणिवण्णाभा कक्खडफासा दुरहियासा' इति / तत्र नित्यं- सर्वदा अन्धकारं- अन्धत्वकारकं बहलबलाहकपटलाच्छादितगगनमण्डलामावास्यार्द्धरात्रान्धकारवत्तमःतमिदं येषु ते नित्यान्धकारतमसः, अथवा नित्येनान्धकारेण सार्वकालिकेनेत्यर्थः तमसः- तमिस्रा नित्यान्धकारतमसः, जात्यन्धमेघान्धकारामावास्यानिशीथतुल्या इत्यर्थः, कथमित्यत आह- व्यपगता- अविद्यामाना ग्रहचन्द्रसूरनक्षत्ररूपाणां ज्योतिषां-ज्योतिष्कलक्षणविमानविशेषाणां ज्योतिषो वा-दीपाद्यग्नेः प्रभा- प्रकाशो येषु ते तथा, पह त्ति पथशब्दो वाऽयं व्याख्येयः, तथा मेदोवसापूयरुधिरमांसानि शरीरावयवास्तेषांयच्चिक्खल्लं-कर्दमस्तेन लिप्तं- उपदिग्धमनुलेपनेन सकृल्लिप्तस्य पुनः पुनरुपलेपनेन तलं- भूमिका येषां ते मेदोवसापूयरुधिरमांसचिखल्ललिप्तानुलेपनतलाः, यद्यपि च तत्र मेदःप्रभृतीन्यौदारिकपञ्चेन्द्रियशरीरावयवरूपाणि न सन्ति वैक्रियशरीरत्वान्नारकाणां तथापि तदाकारास्तदवयवास्तत्र प्रोच्यन्त इति, // 237 //