________________ श्रीसमवायाङ्गं श्रीअभय वृत्तियुतम् // 227 // सूत्रम् 147 द्वादशाङ्गम् दृष्टिवादः अणंता गमा अणंता पज्जवा परित्ता तसा अणंता थावरा सासया कडा णिबद्धा णिकाइया जिणपण्णत्ता भावा आघविनंति पण्णविजंति परूविजंति दंसिर्जति निदंसिर्जति उवदंसिजंति, एवंणाया एवं विण्णाया एवं चरणकरणपरूवणया आघविजंति से तं दिट्ठिवाए, से तंदुवालसंगे गणिपिडगे॥१२॥॥सूत्रम् 147 // से किं तं दिट्ठिवाए त्ति दृष्टयो- दर्शनानि वदनं वादो दृष्टिनां वादो दृष्टिवादः दृष्टीनां वा पातो यत्रासौ दृष्टिपातःसर्वनयदृष्टय एवेहाख्यायन्त इत्यर्थः, तथा चाह- दिट्ठिवाए ण मित्यादि, दृष्टिवादेन दृष्टिपातेन वा सर्वभावप्ररूपणाऽऽख्यायते, से समासओ पंचविहे इत्यादि सर्वमिदं प्रायो व्यवछिन्नं तथापि यथादृष्टं किञ्चिद् लिख्यते, तत्र सूत्रादिग्रहणयोग्यतासम्पादनसमर्थानि परिकर्माणि गणितपरिकर्मवत्, तच्च परिकर्मश्रुतं सिद्धश्रेणिकादिपरिकर्म मूलभेदतः सप्तविधम्, उत्तरभेदतस्तु त्र्यशीतिविधं मातृकापदादि, एतच्चसर्वं समूलोत्तरभेदं सूत्रार्थतो व्यवच्छिन्नम्, एतेषांच परिकर्मणांषट् आदिमानि परिकर्माणि स्वसामयिकान्येव, गोशालकप्रवर्तिताजीविकपाखण्डिसिद्धान्तमतेन पुरच्युताच्युतश्रेणिकापरिकर्मसहितानि सप्त प्रज्ञाप्यन्ते, इदानीं परिकर्मसुनयचिन्ता, तत्र नैगमो द्विविधः- सांग्रहिकोऽसांग्रहिकश्च,तत्र सांग्रहिकः संग्रहं प्रविष्टोऽसांग्रहिकश्च व्यवहारम्, तस्मात्सङ्ग्रहो व्यवहार ऋजुसूत्रः शब्दादयश्चैक एवेत्येवं चत्वारो नयाः, एतैश्चतुर्भिर्नयैः षट् स्वसामयिकानि परिकर्माणि चिन्त्यन्ते, अतो भणितं छ चउक्कनइयाई भवन्ति, त एव चाजीविकास्त्रैराशिका भणिताः, कस्माद्?, उच्यते, यस्मात्ते सर्वं त्र्यात्मकं इच्छन्ति, यथा जीवोऽजीवो जीवाजीवः लोकोऽलोको लोकालोकः सत् असत् सदसत् इत्येवमादि, नयचिन्तायामपि ते त्रिविधं नयमिच्छन्ति, तद्यथा- द्रव्यार्थिकः पर्यायार्थिकः उभयार्थिकः, अतो भणितं सत्त तेरासिय त्ति 7 किमपि लिख्यते (मु०)। 0 तस्मात्तु संग्रहो (प्र०)। // 227 //