________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 228 // सूत्रम् 147 द्वादशाङ्गम् दृष्टिवादः सप्त परिकर्माणि त्रैराशिकपाखण्डिकॉस्त्रिविधया नयचिन्तया चिन्तयन्तीत्यर्थः, से तं परिकम्मे त्ति निगमनम्, से किं तं सुत्ताइ मित्यादि, तत्र सर्वद्रव्यपर्यायनयाद्यर्थसूचनात् सूत्राणि अमून्यपि च सूत्रार्थतो व्यवच्छिन्नानि तथापि दृष्टानुसारतः किञ्चिल्लिख्यते, एतानि किल ऋजुकादीनि द्वाविंशतिः सूत्राणि, तान्येव विभागतोऽष्टाशीतिर्भवन्ति, कथम्? उच्यते, इच्चेइयाई बावीसं सुत्ताई छिन्नछेयनइयाईससमयसुत्तपरिवाडीए त्ति इह यो नयः सूत्रं छिन्नं छेदेनेच्छतिस छिन्नच्छेदनयो यथा धम्मो मंगलमुक्किट्ठ (दशवै०१/१) मित्यादिश्लोकः सूत्रार्थतः प्रत्येकच्छेदेन स्थितो न द्वितीयादिश्लोकमपेक्षते, प्रत्येकं कल्पितपर्यन्त इत्यर्थः, एतान्येव द्वाविंशतिः स्वसमयसूत्रपरिपाट्या सूत्राणि स्थितानि, तथा इत्येतानि द्वाविंशतिःसूत्राणि अच्छिन्नच्छेदनयिकान्याजीविकसूत्रपरिपाट्येति अयमर्थः- इह यो नयः सूत्रमच्छिन्नं छेदेनेच्छति सोऽच्छिन्नच्छेदनयो यथा धम्मो मंगलमुक्किट्ठ (दशवै 1/1) मित्यादिश्लोक एवार्थतो द्वितीयादिश्लोकमपेक्षमाणो द्वितीयादयश्च प्रथममिति अन्योऽन्यसापेक्षा इत्यर्थः, एतानि द्वाविंशतिराजीविकगोशालकप्रवर्तितपाखण्डसूत्रपरिपाट्या अक्षररचनाविभागस्थितान्यप्यर्थतोऽन्योऽन्यमपेक्षमाणानि भवन्ति, इच्चेइयाई इत्यादि सूत्रम्, तत्र तिकनइयाई ति नयत्रिकाभिप्रायतश्चिन्त्यन्त इत्यर्थस्त्रैराशिकाश्चाजीविका एवोच्यन्ते इति, तथा इच्चेइयाइं इत्यादि सूत्रम्, तत्र चउक्कनइयाई ति नयचतुष्काभिप्रायतश्चिन्त्यन्त इति भावना, एवमेवे त्यादिसूत्रम्, एवं चतम्रो द्वाविंशतयोऽष्टाशीतिः सूत्राणि भवन्ति से तं सुत्ताई ति निगमनवाक्यम्, से किं तं पुव्वगयं इत्यादि, अथ किं पूर्वगतं? उच्यते, यस्मात्तीर्थकरः तीर्थप्रवर्त्तनाकाले गणधराणां सर्वसूत्राधारत्वेन पूर्वं पूर्वगतसूत्रार्थं भाषते तस्मात्पूर्वाणीति भणितानि, गणधराः पुनः श्रुतरचनां विदधाना आचारादिक्रमेण रचयन्ति स्थापयन्ति च,मतान्तरेण तु पूर्वगतसूत्रार्थं पूर्वमर्हता 0 खण्डिस्थास्त्रि (प्र०)। 0 सूत्राणि, अष्टाशीत्यपि च सूत्रार्थतो (मु०)।