________________ सूत्रम श्रीसमवाया श्रीअभय० वृत्तियुतम् // 224 // द्वादशामा दृष्टिवादः तेषां यः समुदाय- समूहः स तथा इत्येतेषां द्वन्द्वस्तत एषां ये विशेषाः- प्रकर्षास्ते तथा, तथा बहुविधकामभोगोद्भवानां सौख्यानां विशेषा इतीहापि सम्बन्धनीयम्, शुभविपाक उत्तमो येषां ते शुभविपाकोत्तमास्तेषु जीवेष्विति गम्यम्, इह चेयं षष्ठ्यर्थे सप्तमी, तेन शुभविपाकाध्ययनवाच्यानां साधूनामायुष्कादिविशेषाः शुभविपाकाध्ययनेष्वाख्यायन्ते इति प्रकृतम्, अथ प्रत्येक श्रुतस्कन्धयोरभिधेये पुण्यपापविपाकरूपे प्रतिपाद्य तयोरेव यौगपद्येन ते आह-अणुवरये त्यादि, अनुपरता-अविच्छिन्ना ये परम्परानुबद्धाः-पारम्पर्यप्रतिबद्धाः, के?-विपाका इति योगः, केषां?-अशुभानां शुभानां चैव कर्मणां प्रथमद्वितीयश्रुतस्कन्धयोः क्रमेणैव भाषिताः- उक्ता बहुविधा विपाकाः विपाकश्रुते एकादशेऽङ्गे भगवता जिनवरेण संवेगकारणार्थाः- संवेगहेतवो भावाःअन्येऽपि चैवमादिका आख्यायन्त इति पूर्वोक्तक्रियया वचनपरिणामाद्वोत्तरक्रियया योगः, एवं बहुविधा विस्तरेणार्थप्ररूपणता आख्यायत इति, शेषं कण्ठ्यम्, नवरं संख्यातानि पदशतसहस्राणि पदाग्रेणेति, तत्र किल एका पदकोटी चतुरशीतिश्चल लक्षाणि द्वात्रिंशच्च सहस्राणीति // 11 // // 146 // से किं तं दिट्ठिवाए?, दिट्ठिवाए णं सव्वभावपरूवणया आघविजइ, से समासओ पंचविहे प० तं- परिकम्मं सुत्ताइं पुव्वगयं अणुओगो चूलिया, से किं तं परिकम्मे?- परिकम्मे सत्तविहे प० तं- सिद्धसेणियापरिकम्मे मणुस्ससेणियापरिकम्मे पुट्ठसेणियापरिकम्मे ओगाहणसेणियापरिकम्मे उवसंपज्जसेणियापरिकम्मे विप्पजहसेणियापरिकम्मे चुआचुअसेणियापरिकम्मे, से किं तं सिद्धसेणियापरिकम्मे?, सिद्धसेणिआपरिकम्मे चोद्दसविहे प० त०-माउयापयाणि एगट्ठियपयाणि अट्ठपयाणि पाढो आगासपयाणि केउभूयं रासिबद्धं एगगुणं दुगुणं तिगुणं केउभूयं पडिग्गहो संसारपडिग्गहो नंदावत्तं सिद्धबद्धं, से तं सिद्धसेणियापरिकम्मे, से किंतं मणुस्ससेणियापरिकम्मे?, मणुस्ससेणियापरिकम्मे चोद्दसविहेपण्णते, तंजहा- ताईचेव माउआपयाणि जाव नंदावत्तं मणुस्सबद्धं,