________________ श्रीसमवाया| श्रीअभय० वृत्तियुतम् // 222 // सूत्रम् 146 द्वादशाङ्गम् विपाकश्रुतम् किमित्याह- यतोऽवेदयित्वा अननुभूय कर्मफलमिति गम्यते हुर्यस्मादर्थे नास्ति-न भवति मोक्षो- वियोगः कर्मणः सकाशात्, जीवानामिति गम्यते, किं सर्वथा नेत्याह- तपसा- अनशनादिना किम्भूतेन?- धृतिः- चित्तसमाधानं तद्रूपा धणिय त्ति अत्यर्थं बद्धा-निष्पीडिता कच्छा-बन्धविशेषो यत्र तत्तथा तेन, धृतिबलयुक्तेनेत्यर्थः, शोधनं- अपनयनं तस्य कर्मविशेषस्य वावि त्ति सम्भावनायां होज्जा सम्पयेत नान्यो मोक्षोपायोऽस्तीति भावः, एत्तो ये त्यादि इतश्चानन्तरं सुखविपाकेषु द्वितीयश्रुतस्कन्धाध्ययनेष्वित्यर्थः, यदाख्यायते तदभिधीयत इति शेषः, शीलं- ब्रह्मचर्यं समाधिर्वा संयमः- प्राणातिपातविरतिनियमा- अभिग्रहविशेषाः गुणाः- शेषमूलगुणाः उत्तरगुणाश्च तपोऽनशनादि एतेषामुपधानं- विधानं येषां ते तथा 2 अतस्तेषुशीलसंयमनियमगुणतपउपधानेषु, केष्वित्याह-साधुषु-यतिषु, किम्भूतेषु?- सुष्ठु विहितं- अनुष्ठितं येषां ते सुविहितास्तेषु / भक्तादि दत्त्वा यथा बोधिलाभादि निर्वर्त्तयन्ति तथेहाख्यायत इति सम्बन्धः, इह च सम्प्रदानेऽपि सप्तमी न दुष्टा, विषयस्य विवक्षणात्, अनुकम्पा- अनुक्रोशस्तत्प्रधान आशयः-चित्तं तस्य प्रयोगो- व्यावृत्तिरनुकम्पाशयप्रयोगस्तेन, तथा तिकालमति त्ति त्रिषु कालेषु या मति:- बुद्धिर्यदुत दास्यामीति परितोषो दीयमाने परितोषो दत्ते च परितोष इति सा त्रिकालमतिस्तया च यानि विशुद्धानि तानि तथा तानि च तानि भक्तपानानि चेति अनुकम्पाशयप्रयोगत्रिकालमतिविशुद्धभक्तपानानि प्रदायेति क्रियायोगः, केन प्रदायेत्याह- प्रयतमनसा- आदरपूतचेतसा, हितोऽनर्थपरिहाररूपत्वात् सुखस्तद्धेतुत्वात् शुभो वा नीसेस त्ति निःश्रेयसः कल्याणकरत्वात् तीव्रः- प्रकृष्टः परिणामः- अध्यवसानं यस्यां सा तथा सा निश्चिता- असंशया मति:-- बुद्धिर्येषां ते हितसुखनिःश्रेयसतीव्रपरिणामनिश्चितमतयः किं? - पयच्छिऊणं ति प्रदाय, किंभूतानि भक्तपानानि?- प्रयोगेषु शुद्धानि दायकदानव्यापारापेक्षया सकलाशंसादिदोषरहितानि ग्राहकग्रहणव्यापारापेक्षया चोद्मादिदोषवर्जितानि, ततः किं?