SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 221 // वपाक श्रुतम् कर्मणां पापकानां पापानुभागा- अशुभरसा ये फलविपाका- विपाकोदयास्ते तथा ते आख्यायन्त इति योगः, केषामित्याह सूत्रम् 146 निरयगतौ तिर्यग्योनौ च ये बहुविधव्यसनशतपरम्पराभिः प्रबद्धास्ते तथा तेषाम्, जीवानामिति गम्यते, तथा मणुयत्ते त्ति द्वादशाङ्गम मनुजत्वेऽप्यागतानां यथा पापकर्मशेषेण पापका भवन्ति फलविपाका अशुभा विपाकोदया इत्यर्थः, तथा आख्यायन्ते इति ] प्रकृतम्, तथाहि-वधो- यष्ट्यादिताडनं वृषणविनाशो- वर्द्धितककरणं तथा नाशायाश्च कर्णयोश्च ओष्ठस्य चाङ्गुष्ठानांच करयोश्च चरणयोश्च नखानां च यच्छेदनं तत्तथा जिह्वाछेदनं अंजण त्ति अञ्जनं तप्तायःशलाकया नेत्रयोः म्रक्षणं वा देहस्य क्षारतैलादिना कडग्गिदाहणं ति कटानां-विदलवंशादिमयानामग्निःकटाग्निस्तेन दाहनं कटाग्निदाहनम्, कटेन परिवेष्टितस्य बोधनमित्यर्थः, तथा गजचलनमलनं फालनं- विदारणं उल्लम्बनं- वृक्षशाखादावुद्वन्धनं तथा शूलेन लतया लकुटेन यष्ट्या च भञ्जनं गात्राणां तथा त्रपुणा- धातुविशेषेण सीसकेन च- तेनैव तप्तेन तैलेन च कलकल त्ति सशब्देनाभिषेचनं तथा कुम्भ्यां - भाजनविशेष पाकः कुम्भीपाकः, कम्पनं-शीतलजलाच्छोटनादिना शीतकाले गात्रोत्कम्पजननं तथा स्थिरबन्धनं-निबिडनियन्त्रणं वेधःकुन्तादिना शस्त्रेण भेदनं वर्द्धकर्त्तनं- त्वगुत्त्रोटनं प्रतिभयकर- भयजननं तच्च तत् करप्रदीपनंच-वसनवेष्टितस्य तैलाभिषिक्तस्य करयोरग्निप्रबोधनमिति कर्मधारयः, ततश्च वधश्च वृषणविनाशश्चेत्यादि यावत्प्रतिभयकरकरप्रदीपनं चेति द्वन्द्वः, ततस्तानि आदिर्येषां दुःखानां तानि च तानि दारुणानि चेति कर्मधारयः, कानीमानीत्याह- दुःखानि, किंभूतानि?- अनुपमानि दुःखविपाकेष्वाख्यायन्त इति प्रक्रमः, तथेदमाख्यायते बहुविधपरम्पराभिः दुःखानामिति गम्यते, अनुबद्धाः-सन्ततमालिङ्गिता बहुविधपरम्परानुबद्धा जीवा इति गम्यते न मुच्यन्ते-न त्यज्यन्ते, कया?- पापकर्मवल्ल्या दुःखफलसम्पादिकया, (r) निविडयन्त्रणं (प्र०)। ॐ नुवृद्धा (मु०)।
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy