________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 214 // सूत्रम् 144 द्वादशाङ्गम् अनुत्तरोपपातिकः जाव एवं चरणकरणपरूवणया आघविखंति, सेतं अणुत्तरोववाइयदसाओ॥९॥ सूत्रम् 144 // से किं त मित्यादि, नास्मादुत्तरो विद्यते इत्यनुत्तर उपपतनमुपपातो जन्मेत्यर्थः, अनुत्तरः- प्रधानः संसारे अन्यस्य तथाविधस्याभावादुपपातो येषां ते तथा त एवानुत्तरोपपातिकाः, तद्वक्तव्यताप्रतिबद्धादशा-दशाध्ययनोपलक्षिता अनुत्तरोपपातिकदशाः, तथा चाह- अणुत्तरोववाइयदसासु ण मित्यादि, तत्रानुत्तरोपपातिकानामिति- साधूनां नगरादीनि द्वाविंशतिः पदानि ज्ञाताधर्मकथावर्णकोक्तानि तथा / एतेषामेव च प्रपञ्च रचयन्नाह- अनुत्तरोपपातिकदशासुतीर्थकरसमवसरणानि, किम्भूतानि?,परममङ्गल्यत्वेन जगद्धितानि परममङ्गल्यजगद्धितानि जिनातिशेषाश्च- बहुविशेषा: देहं विमलसुयंध'मित्यादयश्चतुस्त्रिंशदधिकतरा वा तथा जिनशिष्याणां चैव- गणधरादीनाम्, किम्भूतानामत आह- श्रमणगणप्रवरगन्धहस्तिनां- श्रमणोत्तमानामित्यर्थः, तथा स्थिरयशसां तथा परीषहसैन्यमेव- परीषहवृन्दमेव रिपुबलं- परचक्रं तत्प्रमईनानाम्, तथा दववद्-दावाग्निरिव दीप्तानिउज्ज्वलानि पाठान्तरेण तपोदीप्तानि यानि चरित्रज्ञानसम्यक्त्वानि, तैः सारा:- अफल्गवो विविधप्रकारविस्तारा- अनेकविधप्रपञ्चाः प्रशस्ताश्च ये क्षमादयो गुणास्तैः संयुतानाम्, क्वचित्तु गुणध्वजानामिति पाठः, तथा अनगाराश्च ते महर्षयश्चेत्यनगारमहर्षयस्तेषामनगारगुणानां वर्णकः- श्लाघा आख्यायत इति योगः,पुनः किम्भूतानां जिनशिष्याणां?- उत्तमाश्च ते जात्यादिभिर्वरतपसश्च ते च ते विशिष्टज्ञानयोगयुक्ताश्चेत्यतस्तेषामुत्तमवरतपोविशिष्टज्ञानयोगयुक्तानाम्, किश्चापरं? यथा च जगद्धितं भगवत इत्यत्र जिनस्य शासनमिति गम्यते, यादृशाश्च ऋद्धिविशेषा देवासुरमानुषाणां रत्नोज्वललक्षयोजनमानविमानरचनं सामानिकाद्यनेकदेवदेवीकोटिसमवायनं मणिखण्डमण्डितदण्डपटुप्रचलत्पताकिकाशतोपशोभितमहाध्वजपुरःप्रवर्त्तनं विविधातोद्य (c) यथा (प्र०)/यथा तथा (ज्ञेयानि) (मु०)। 0 ०माङ्गल्य० (मु०)। (c) सफलाः (मु०)। // 214 //