________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 207 // सूत्रम् 141 द्वादशाङ्गम् ज्ञाताधर्मकथा च्युतानां यथा च पुनर्लब्धसिद्धिमार्गाणां- मनुजगताववाप्तज्ञानादीनामन्तक्रिया- मोक्षो भवति तथाऽऽख्यायत इति प्रक्रमः, तथा चलितानां च- कथञ्चित्कर्मवशतः परीषहादावधीरतया संयमप्रतिज्ञाया भ्रष्टानां सह देवैर्मानुषाः सदेवमानुषास्तेषां सम्बन्धीनि धीरकरणे- धीरत्वोत्पादने यानि कारणानि- ज्ञातानि तानि सदेवमानुषधीरकरणकारणानि आख्यायन्त इति / प्रक्रमः, इयमत्र भावना- यथा आर्याषाढो देवेन धीरीकृतो यथा वा मेघकुमारो भगवता शैलकाचार्यो वा पन्थकसाधुना धीरीकृतः एवं धीरकरणकारणानि तत्राख्यायन्ते, किंभूतानि तानीत्याह- बोधनानुशासनानि बोधनानि- मार्गभ्रष्टस्य मार्गसंस्थापनानि अनुशासनानि- दुःस्थस्य सुस्थतासम्पादनानि अथवा बोधनं- आमन्त्रणं तत्पूर्वकान्यनुशासनानि बोधनानुशासनानि, तथा गुणदोषदर्शनानि- संयमाराधनायां गुणा इतरत्र दोषा भवन्तीत्येवंदर्शनानि वाक्यान्याख्यायन्त इति योगः, दृष्टान्तान् ज्ञातानि प्रत्ययांश्च बोधिकारणभूतानि वाक्यानि श्रुत्वा लोकमुनयः शुकपरिव्राजकादयो यथा च येन च प्रकारेण स्थिताः शासने जरामरणनाशनकरे जिनानां सम्बन्धिनीति भावः, तथाऽऽख्यायन्त इति योगः, तथा आराहितसञ्जम त्ति एत एव लौकिकमुनयः संयमवलिताश्च जिनप्रवचनं प्रपन्नाः पुनः परिपालितसंयमाश्च सुरलोकं गत्वा चैते सुरलोकप्रतिनिवृत्ता उपयन्ति यथा शाश्वतं- सदाभाविनं शिवं- अबाधकं सर्वदुःखमोक्षं निर्वाणमित्यर्थः, एते चोक्तलक्षणाः अन्ये च एवमादित्थ ति एवमादय आदिशब्दस्य प्रकारार्थत्वादेवंप्रकारा अर्थाः- पदार्थाः, वित्थरेण यत्ति विस्तरेण चशब्दात् क्वचित्केचित् संक्षेपेण आख्यायन्त इति क्रियायोगः नायाधम्मकहासुण मित्यादि कण्ठ्यमा निगमनात्, नवरं एकूणवीसमज्झयण त्ति प्रथमे श्रुतस्कन्धे एकोनविंशति-8 द्वितीये च दशेति, तथा दस धम्मकहाणं वगा इत्यादौ भावनेयं- इहैकोनविंशतिआताध्ययनानि दार्टान्तिकार्थज्ञापनलक्षण 0 पुनः पालित० (प्र०)। 0 एकूणतीस० (प्र०)।