SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 206 // सूत्रम् 141 द्वादशाङ्गम् ज्ञाताधर्मकथा दोषमूर्छितानां पाठान्तरेण विषयसुखे या महेच्छा कस्यांचिदवस्थायांया चावस्थान्तरे तुच्छाशा तयोर्वशः-पारतन्त्र्यं तल्लक्षणेन दोषेण मूर्च्छिता ये ते तथा तेषां विषयसुखमहेच्छातुच्छाशावशदोषमूर्छितानाम्, तथा विराधितानि चारित्रज्ञानदर्शनानि यैस्ते तथा, तथा यतिगुणेषु विविधप्रकारेषु मूलगुणोत्तरगुणरूपेषु निःसारा:- सारवर्जिताः पलञ्जिप्रायगुणधान्या इत्यर्थः, तथा तैरेव यतिगुणैः शून्यकाः सर्वथा अभावाद्ये ते तथेति, पदत्रयस्य कर्मधारयोऽतस्तेषां विराधितचारित्रज्ञानदर्शनयतिगुणविविधप्रकारनिःसारशून्यकानाम्, किमत आह-संसारे-संसृतौ अपारदुःखा- अनन्तक्लेशा ये दुर्गतिषु- नारकतिर्यक्कुमानुषकुदेवत्वरूपासु भवा- भवग्रहणानि तेषां या विविधाः परम्पराः- पारम्पर्याणि तासां ये प्रपञ्चास्ते संसारापारदुःखदुर्गतिभवविविधपरम्पराप्रपञ्चाः, आख्यायन्ते इति पूर्वेण योगः, तथा धीराणांच- महासत्त्वानाम्, किंभूतानां?-जितं परीषहकषायसैन्यं यैस्ते तथा, धृतेः- मनःस्वास्थ्यस्य धनिका:- स्वामिनो धृतिधनिकाः, तथा संयमे उत्साहो-वीर्यं निश्चित:अवश्यंभावी येषां ते संयमोत्साहनिश्चितास्ततः पदत्रयस्य कर्मधारयोऽतस्तेषां जितपरीषहकषायसैन्यधृतिधनिकसंयमोत्साहनिश्चितानाम्, तथा आराधिता ज्ञानदर्शनचारित्रयोगा यैस्ते तथा निःशल्यो- मिथ्यादर्शनादिरहितः शुद्धश्च- अतीचारवियुक्तो यःसिद्धालयस्य-सिद्धर्मार्गस्तस्याभिमुखायेते तथा ततः पदद्वयस्य कर्मधारयः अतस्तेषामाराधितज्ञानदर्शनचारित्रयोगनिःशल्यशुद्धसिद्धालयमार्गाभिमुखानाम्, किमत आह-सुरभवने- देवतयोत्पादे यानि विमानसौख्यानि तानि सुरभवनविमानसौख्यानि अनुपमानि ज्ञाताधर्मकथास्वाख्यायन्त इति प्रक्रमः, इह च भवनशब्देन भवनपतिभवनानि न व्याख्यातान्यविराधितसंयमप्रव्रजितप्रस्तावात्, ते हि भवनपतिषु नोत्पद्यन्त इति, तथा भुक्त्वा चिरं च भोगभोगान्- मनोज्ञशब्दादीन् तांस्तथाविधान् दिव्यान्-स्वर्गभवान् महार्हान् महतः- आत्यन्तिकान् अर्हान्-प्रशस्ततया पूज्यानिति भावः, ततश्च-देवलोकात् कालक्रम
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy