________________ श्रीअभय० वृत्तियुतम् // 205 // सूत्रम् 141 द्वादशाङ्गम् ज्ञाताधर्मकथा ज्ञाताधर्मकथासु णमित्यलङ्कारे प्रव्रजितानाम्, क्व?- विनयकरणजिनस्वामिशासनवरे कर्मविनयकरे जिननाथसम्बन्धिनि शेषप्रवचनापेक्षया प्रधाने प्रवचने इत्यर्थः, पाठान्तरेण समणाणं विणयकरणजिणसासणंमि पवरे किंभूतानां?-संयमप्रतिज्ञासंयमाभ्युपगमः सैव दुरधिगम्यत्वात् कातरनरक्षोभकत्वाद्गम्भीरत्वाच्च पातालमिव पातालं तत्र धृतमतिव्यवसाया दुर्लभा येषां ते तथा, पाठान्तरेण संयमप्रतिज्ञापालने ये धृतिमतिव्यवसायास्तेषु दुर्बला ये ते तथा तेषाम्, तत्र धृतिः- चित्तस्वास्थ्यं मतिः- बुद्धिर्व्यवसाय:- अनुष्ठानोत्साह इति, तथा तपसि नियमः- अवश्यंकरणं तपोनियमो नियन्त्रितं तपः, सच तपउपधानं 8 चानियन्त्रितं तप एव श्रुतोपचार तपो वा तपोनियम- तपउपधाने ते एव रणश्च- कातरनरक्षोभकत्वात् सङ्ग्रामो दुद्धरभर त्ति श्रमकारणत्वाहुर्द्धरभरश्व-दुर्वहलोहादिभारस्ताभ्यां भग्ना इति भग्नकाः- परामखीभूतास्तथा निस्सहानिसट्ठाणं ति निःसहा-8 नितरामशक्तास्त एव निःसहका निसृष्टाश्च-निसृष्टाङ्गा मुक्ताङ्गायेते तपोनियमतपउपधानरणदुर्धरभरभग्नक-निःसहकनिसृष्टाः, पाठान्तरेण निःसहकनिविष्टास्तेषाम्, इह च प्राकृतत्वेन ककारलोपसन्धिकरणाभ्यां भग्ना इत्यादौ दीर्घत्वमवसेयम्, तथा घोरपरीषहै: पराजिताश्चासहाश्च- असमर्थाःसन्तःप्रारब्धाश्च-परीषहैरेव वशीकर्तुंरुद्धाश्च मोक्षमार्गगमने ये ते घोरपरीषहपराजितासहप्रारब्धरुद्धाः अत एव सिद्धालयमार्गात्-ज्ञानादेर्निर्गता:-प्रतिपतिता येते तथा तेच तेचेति तेषां घोरपरीषहपराजितासहप्रारब्धरुद्धसिद्धालयमार्गनिर्गतानाम्, पाठान्तरेण घोरपरीषहपराजितानां तथा सह युगपदेव परीषहैर्विशिष्टगुणश्रेणिमारोहन्तः प्ररुद्धरुद्धाः- अतिरुद्धाः सिद्धालयमार्गनिर्गताश्च येते तथा तेषां सहप्ररुद्धरुद्धसिद्धालयमार्गनिर्गतानाम्, तथा विषयसुखे तुच्छे स्वरूपतः आशावशदोषेण- मनोरथपारतन्त्र्यवैगुण्येन मूर्च्छिता- अध्युपपन्ना ये ते तथा तेषां विषयसुखतुच्छाशावश-8 O कातरजन० (मु०), कातरक्षोभ० (प्र०)।