SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाकं श्रीअभय० वृत्तियुतम् // 208 // सूत्रम् 141 द्वादशाङ्गम् ज्ञाताधर्मकथा ज्ञातप्रतिपादकत्वात्तानि प्रथमश्रुतस्कन्धे, द्वितीये त्वहिंसादिलक्षणधर्मस्य कथा धर्मकथा- आख्यानकानीत्युक्तं भवति, तासां च दश वर्गाः, वर्ग इति समूहः, ततश्चार्थाधिकारसमूहात्मकान्यध्ययनान्येव दश वर्गा द्रष्टव्याः, तत्र ज्ञातेष्वादिमानि दश ज्ञातानि ज्ञातान्येव, न तेष्वाख्यायिकादिसम्भवः, शेषाणि नव ज्ञातानि, तेषु पुनरेकैकस्मिन् पञ्च पञ्च चत्वारिंशदधिकानि आख्यायिकाशतानि, तत्राप्येकैकस्यामाख्यायिकायां पञ्च पञ्चोपाख्यायिकाशतानि, तत्राप्येकैकस्यामुपाख्यायिकायां पञ्चपञ्चाख्यायिकोपाख्यायिकाशतानि, एवमेतानि संपिण्डितानि किं संजातं?- इगवीसं कोडिसयं लक्खा पण्णासमेव बोद्धव्वा |1215000000 / एवं ठिए समाणे अहिगयसुत्तस्स पत्थावो // 1 // (नन्दी० हारी०) तद्यथा दस धम्मकहाणं वग्गा, तत्थ णं एगमेगाए धम्मकहाए पंच पंच अक्खाइयासयाई एगमेगाए अक्खाइयाए पंच पंच उवक्खाइयासयाई एगमेगाए उवक्खाइयाए पंच पंच अक्खाइयोवक्खाइयासयाइंति, एवमेतानि सम्पिण्डितानि किं संजातं?- पणुवीसं कोडिसयं 1250000000 एत्थ यसमलक्खणाइया जम्हा। नवनाययसंबद्धा अक्खाइयमाझ्या तेणं // 1 // तो सोहिजंति फुडं इमाओ रासीओ वेगलाणं तु / पुणरुत्तवज्जियाणं पमाणमत्थं विणिढि // 2 // (नन्दी० हारी०)शोधिते चैतस्मिन् सति अर्द्धचतुर्था एव कथानककोट्यो भवन्तीति, अत एवाहएवामेव सपुव्वावरेणं ति भणितप्रकारेण गुणनशोधने कृते सतीत्युक्तं भवति अछुट्टाओ अक्खाइयाकोडीओ भवन्तीतिमक्खायाओ त्ति आख्यायिकाः- कथानकॉनि एता- एवमेतत्संख्या भवन्तीतिकृत्वा आख्याता भगवता महावीरेणेति, तथा संख्यातानि पदसयसहस्साणी ति किल पञ्च लक्षाणि षट्सप्ततिश्च सहस्राणि पदाग्रेण अथवा सूत्रालापकपदाग्रेण संख्यातान्येव पदशतसहस्राणि भवन्तीत्येवं सर्वत्र भावयितव्यमिति // 6 // // 141 // 0 इमाउ रासीउ (प्र०)10 मेयं (मु०)। 0 एवमेव (मु०)। 0 कथानिका (प्र०)।
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy