SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 202 // सूत्रम् 140 द्वादशाङ्गम् व्याख्याप्रज्ञप्तिः भावः, अनुगमः-संहितादिव्याख्यानप्रकाररूपः उद्देशनिर्देशनिर्गमादिद्वारकलापात्मको वा निक्षेपो-नामस्थापनाद्रव्यभावैवस्तुनो न्यासः नयप्रमाणं नया-नैगमादयः सप्त द्रव्यास्तिकपर्यायास्तिकभेदात् ज्ञाननयक्रियानयभेदान्निश्चयव्यवहारभेदाद्वा द्वौ ते एव तावेव वा प्रमाणं-वस्तुतत्त्वपरिच्छेदनं नयप्रमाणं तथा सुनिपुणः- सुसूक्ष्मः सुनिगुणो वा सुष्ठु निश्चितगुण उपक्रमःआनुपूर्व्यादिः, विविधप्रकारता चैषां भेदभणनत एवोपदर्शितेति, पुनः किंभूतानां व्याकरणानां?, लोकालोको प्रकाशितौ येषु तानि तथा तेषाम्, तथा संसारसमुद्दरुंदउत्तरणसमत्थाणं ति संसारसमुद्रस्य रुन्दस्य-विस्तीर्णस्य उत्तरणे- तारणे समर्थानामित्यर्थः, अत एव सुरपतिसंपूजितानां- प्रच्छकनिर्णायकपूजनात् सूक्तत्वेन श्लाघितत्वाद्वा तथा भवियजणपयहिययाभिणंदियाण ति भव्यजनानां- भव्यप्राणिनां प्रजा- लोको भव्यजनप्रजा भव्यजनपदो वा तस्यास्तस्य वा हृदयैः- चित्तैरभिनन्दितानांअनुमोदितानामिति विग्रहः, तथा तमोरजसी- अज्ञानपातके विध्वंसयति- नाशयति यत्तत्तमोरजोविध्वंसं तच्च तद् ज्ञानं चल तमोरजोविध्वंसज्ञानं तेन सुष्ठुदृष्टानि-निर्णीतानि यानि तानि तथा अत एव तानि च तानि दीपभूतानि चेति, अत एव तानि च तानि ईहामतिबुद्धिवर्द्धनानि चेति, तेषां तमोरजोविध्वंसज्ञानसुदृष्टदीपभूतेहामतिबुद्धिवर्द्धनानाम्, तत्र ईहा-वितर्को मतिःअवायो निश्चय इत्यर्थः, बुद्धिः- औत्पत्तिक्यादिश्चतुर्विधेति, अथवा तमोरजोविध्वंसनानामिति पृथगेव पदं पाठान्तरेण सुदृष्टदीपभूतानामिति च, तथा छत्तीससहस्समणूणयाणं ति अन्यूनकानिषट्त्रिंशत् सहस्राणि येषांतानि तथा, इह मकारोऽन्यथा पदनिपातश्च प्राकृतत्वादनवद्य इति, वागरणाणं ति व्याक्रियन्ते- प्रश्नानन्तरमुत्तरतयाऽभिधीयन्ते निर्णायकेन यानि तानि व्याकरणानि तेषां दर्शनात् प्रकाशनादुपनिबन्धनादित्यर्थः, अथवा तेषां दर्शना- उपदर्शका इत्यर्थः, क इत्याह- सुतत्थबहुविहप्पयार त्ति श्रुतविषया-अर्थाः श्रुतार्था अभिलाप्यार्थविशेषा इत्यर्थः, श्रुता वा आकर्णिता जिनसकाशे गणधरेण ये // 202 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy