________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 201 // सूत्रम् 140 द्वादशाङ्गम् व्याख्याप्रज्ञप्तिः पडिवत्तीओसंखेज्जा वेढा संखेजा सिलोगा संखेन्जाओ निजुत्तीओ,सेणं अंगट्ठयाए पञ्चमे अंगे एगेसुयक्खंधे एगे साइरेगे अज्झयणसते दस उद्देसगसहस्साइंदस समुद्देसगसहस्साइंछत्तीसं वागरणसहस्साईचउरासीई पयसहस्साई पयग्गेणं पण्णत्ता, संखेजाई अक्खराई अणंता गमा अणंता पज्जवा परित्ता तसा अणंता थावरा सासया कडा णिबद्धा णिकाइया जिणपण्णत्ता भावा आघविजंति पण्णविजंति परूविजंति निदंसिखंति उवदंसिखंति, से एवं आया से एवंणाया एवं विण्णाया एवं चरणकरणपरूवणया आघविजंति,से तं वियाहे॥५॥॥सूत्रम् 140 // से किं तं वियाहे इत्यादि,अथ केयं व्याख्या? व्याख्यायन्ते अर्था यस्यां सा व्याख्या, वियाहे इति च पुंल्लिङ्गनिर्देशः प्राकृतत्वात्, वियाहेणं ति व्याख्यया व्याख्यायांवाससमया इत्यादीनि नव पदानि सूत्रकृतवर्णके व्याख्यातत्वादिह कण्ठ्यानि, वियाहेण मित्यादि, नानाविधैः सुरेनरेन्द्रः राजर्षिभिश्च विविहसंसइय त्ति विविधसंशयितै:-विविधसंशयवद्भिः पृष्टानि यानि तानि तथा तेषां नानाविधसुरनरेन्द्रराजऋषिविविधसंशयितपृष्टानां व्याकरणानां षट्त्रिंशतः सहस्राणां दर्शनात् श्रुतार्था व्याख्यायन्त इति पूर्वापरेण वाक्यसंबन्धः, पुनः किंभूतानां व्याकरणानां?- जिनेने ति भगवता महावीरेण वित्थरेण भासियाणं विस्तरेण भणितानामित्यर्थः, पुनः किंभूतानां?- दव्वे त्यादि, द्रव्यगुणक्षेत्रकालपर्यवप्रदेशपरिणामानां यथास्तिभावोऽनुगमनिक्षेपनयप्रमाणसुनिपुणोपक्रमैर्विविधप्रकारैः प्रकटः प्रदर्शितो यैर्व्याकरणैस्तानि तथा तेषाम्, तत्र द्रव्याणि-धर्मास्तिकायादीनि गुणा- ज्ञानवर्णादयः क्षेत्रं- आकाशं कालः- समयादिः पर्यवाः- स्वपरभेदभिन्ना धाःअथवा कालकृता अवस्था नवपुराणादयः पर्यवाः प्रदेशा-निरंशावयवाः परिणामाः- अवस्थातोऽवस्थान्तरगमनानि यथा- येन प्रकारेणास्तिभावः अस्तित्वं-सत्ता यथाऽस्ति 7 राजऋषिभिश्च (प्र०)।