SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 199 // सूत्रम् 139 द्वादशाङ्गम् समवायागाधिकारः तथा द्वादशविधो विस्तरो यस्याचारादिभेदेन तत् द्वादशविधविस्तरं तस्य श्रुतज्ञानस्य जिनप्रवचनस्य, किंभूतस्य? जगज्जीवहितस्य, भगवतः श्रुतातिशययुक्तस्य समासेन संक्षेपेण समाचारः- प्रतिस्थानं प्रत्यङ्गंच विविधाभिधेयाभिधायकत्वलक्षणो व्यवहारः आहिज्जाइत्ति आख्यायते, अथ समाचाराभिधानानन्तरं तत्र यदुक्तं तदभिधातुमाह- तत्थ ये त्यादि, तत्थ यत्ति तत्रैव समवाये इति योगः नानाविधः प्रकारो येषां ते नानाविधप्रकाराः, तथाहि- एकेन्द्रियादिभेदेन पञ्चप्रकारा जीवाः पुनरेकैकः प्रकारः पर्याप्तापर्याप्तादिभेदेन नानाविधः, जीवाजीवा य त्ति जीवा अजीवाश्च वर्णिता विस्तरेण महता वचनसन्दर्भेण, अपरेऽपि च बहुविधा विशेषा जीवाजीवधर्मा वर्णिता इति योगः, तानेव लेशत आह- नरये त्यादि, नरय ति निवासनिवासिनामभेदोपचारान्नारकाः, ततश्च नारकतिर्यग्मनुजसुरगणानां सम्बन्धिन आहारादयः, तत्र आहार:- ओजआहारादिराभोगिकानाभोगिकस्वरूपोऽनेकधा उच्छ्रासोऽनुसमयादिकालभेदेनानेकधा, लेश्या कृष्णादिका षोढा, आवाससंख्या यथा नरकावासानां चतुरशीतिर्लक्षाणीत्यादिका आयतप्रमाणमावासानामेव संख्यातासंख्यातयोजनायामता उपलक्षणत्वादस्य विष्कम्भबाहल्यपरिधिमानान्यप्यत्र द्रष्टव्यानि, उपपात एकसमयेनैतावतामेतावतावा कालव्यवधानेनोत्पत्तिः च्यवनमेकसमयेनैतावतामियता वा कालव्यवधानेन मरणम्, अवगाहना-शरीरप्रमाणमङ्गलासंख्येयभागादि अवधिः- अङ्गलासंख्येयभागक्षेत्रविषयादिः, वेदना- शुभाशुभस्वभावा, विधानानि- भेदा यथा सप्तविधा नारका इत्यादि उपयोगः- आभिनिबोधिकादिदशविधः, योगः- पञ्चदशविधः, इन्द्रियाणि- पञ्च द्रव्यादिभेदाद् विंशतिर्वा श्रोत्रादिच्छिद्राद्यपेक्षयाऽष्टौ वा कषायाः- क्रोधादयः - क्राधादयः आहारश्चोच्छ्रासश्चेत्यादिर्द्वन्द्वस्ततः कषायशब्दात्प्रथमाबहुवचनलोपो द्रष्टव्यः तथा विविधा च जीवयोनिः- सचित्तादिकं Oव्यवधानमे० (प्र०)। // 199 / /
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy