________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 198 // सूत्रम् 139 द्वादशाङ्गम् समवायाङ्गाधिकारः वेयणविहाणउवओगजोगइंदियकसाय विविहाय जीवजोणी विक्खंभुस्सेहपरिरयप्पमाणं विहिविसेसा य मंदरादीणं महीधराणं कुलगरतित्थगरगणहराणं सम्मत्तभरहाहिवाण चक्कीणंचेव चक्कहरहलहराण य वासाण य निग्गमा य समाए एए अण्णे य एवमाइ एत्थ वित्थरेणं अत्था समाहिज्जंति, समवायस्सणं परित्ता वायणा जाव से णं अंगट्ठयाए चउत्थे अंगे एगे अज्झयणे एगे सुयक्खंधे एगे उद्देसणकाले एगे समुद्देसणकाले एगे चोयाले पदसयसहस्से पयग्गेणं प०, संखेज्जाणि अक्खराणि जाव चरणकरणपरूवणया आघविखंति, सेतंसमवाए॥४॥॥सूत्रम् 139 // से किं त मित्यादि, अथ कोऽसौ समवायः?, सूत्रे तु प्राकृतत्वेन वकारलोपात् समाये इत्युक्तम्, समवायनं समवायः सम्यक् परिच्छेद इत्यर्थः, तद्धेतुश्च ग्रन्थोऽपि समवायः, तथा चाह- समवायेन समवाये वा स्वसमयाः सूच्यन्ते इत्यादि कण्ठ्यम्, तथा समवायेन समवाये वा एगाइयाणं ति एकद्वित्रिचतुरादीनां शतान्तानां कोटीकोट्यन्तानां वा एगत्थाणं ति एके च ते अर्थाश्चेत्येकार्थास्तेषाम्, अयमर्थः एकेषां केषाश्चित् न सर्वेषां निखिलानां वक्तुमशक्यत्वादर्थानां जीवादीनां एगुत्तरिय त्ति एक उत्तरो यस्यां सा एकोत्तरा सैव एकोत्तरिका, इह च प्राकृतत्वात् ह्रस्वत्वम्, परिवुड्डी य त्ति परिवृद्धिश्चेति समनुगीयते समवायेनेति योगः, तत्र च परिवर्द्धनं संख्यायाः समवसेयम्, चशब्दस्य चान्यत्र सम्बन्धादेकोत्तरिका अनेकोत्तरिका च, तत्र शतं यावदेकोतरिका परतोऽनेकोत्तरिकेति, तथा द्वादशाङ्गस्य च गणिपिटकस्य पल्लवग्गे त्ति पर्यवपरिमाणं अभिधेयादितद्धर्मसंख्यानं यथा परित्ता तसा इत्यादि पर्यवशब्दस्य च पल्लव त्ति निर्देशः प्राकृतत्वात् पर्यङ्कः पल्यङ्क इत्यादिवदिति, अथवा पल्लवा इव पल्लवा:- अवयवास्तत्परिमाणं समणुगाइजति त्ति-समनुगीयते- प्रतिपाद्यते, पूर्वोक्तमेवार्थं प्रपञ्चयन्नाह- ठाणगे त्यादि, 'ठाणगसयस्स'त्ति स्थानकशतस्यैकादीनां शतान्तानां च संख्यास्थानानां च तद्विशेषितात्मादिपदार्थानामित्यर्थः, // 198 //