SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 193 // सूत्रम् 137 द्वादशाङ्गम् सूत्रकृताङ्गाधिकारः किंभूतानां?- कुसमयमोहमोहमइमोहियाणं ति कुत्सितः समय:- सिद्धान्तो येषां ते कुसमयाः- कुतीर्थिकास्तेषां मोहःपदार्थेष्वयथावबोधः कुसमयमोहस्तस्माद्यो मोहः- श्रोतृमनोमूढता तेन मतिर्मोहिता- मूढतांनीता येषां ते कुसमयमोहमोहमतिमोहिताः, अथवा कुसमया:- कुसिद्धान्तास्तेषां ओघः- सङ्घो मकारस्तु प्राकृतत्वात् तस्माद्यो मोहों - मूढता तेन मतिर्मोहिता येषां ते कुसमयौघमोहमतिमोहिताः, अथवा कुसमयानां- कुतीर्थिकानां मौधो मोघो वा- शुभफलापेक्षया निष्फलो यो मोहस्तेन मतिर्मोहिता येषां ते कुसमयमौघमोहमतिमोहिताः कुसमयमोघमोहमतिमोहिता वा तेषाम्, तथा संदेहा:- वस्तुतत्वं प्रति संशयाः कुसमयमोहमोहमतिमोहितानामिति विशेषणसान्निध्यात् कुसमयेभ्यः सकाशाजाता येषां ते सन्देहजाताः, तथा सहजात्-स्वभावसम्पन्नात् न कुसमयश्रवणसम्पन्नाद्बुद्धिपरिणामात्-मतिस्वभावात् संशयो जातो येषां ते सहजबुद्धिपरिणामसंशयिताः सन्देहजाताश्च सहजबुद्धिपरिणामसंशयिताश्च ये ते तथा तेषां श्रमणानामिति प्रक्रमः, किमत आह-पापकरो विपर्ययसंशयात्मकत्वेन कुत्सितप्रवृत्तिनिबन्धनत्वादशुभकर्महेतुरत एव च मलिनः-स्वरूपाच्छादनादनिर्मलोयोमतिगुणोबुद्धिपर्यायस्तस्य विशोधनाय- निर्मलत्वाधानाय पापकरमलिनमतिगुणविशोधनार्थम् / आसीयस्स किरियावाइ-सयस्स त्ति अशीत्यधिकस्य क्रियावादिशतस्य व्यूहं कृत्वा स्वसमयः स्थाप्यत इति योगः, एवं शेषेष्वपि पदेषु क्रिया योजनीयेति, तत्र नकर्तारं विना क्रिया संभवतीति तामात्मसमवायिनीं वदन्ति ये तच्छीलाश्च ते क्रियावादिनः, ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षणा अमुनोपायेनाशीत्यधिकशतसंख्या विज्ञेयाः-जीवाजीवाश्रवबन्धसंवरनिर्जरापुण्यापुण्यमोक्षाख्यान्नव पदार्थान् / विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ, तयोरधो नित्यानित्यभेदौ, तयोरप्यधः कालेश्वरात्मनियति ७०यथावबोध: (प्र०)।® मोहः-श्रोतृमनोमूढता(मु०) 0 मोहो मोघो वा(मु०) 0 कुसमयमोहमोह(मु०)।७ एव मलिनः (प्र०) 0 न विना कर्ता (प्र०)। // 193 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy