________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 191 // सूत्रम् 137 द्वादशाङ्गम् सूत्रकृतागाधिकारः एते?- सासया कडा निबद्धा निकाइय त्ति शाश्वताः द्रव्यार्थतया अविच्छेदेन प्रवृत्तेः कृताः पर्यायार्थतया प्रतिसमयमन्यथात्वावाप्तेर्निबद्धाः-सूत्र एव ग्रथिता निकाचिता- नियुक्तिसङ्ग्रहणिहेतूदाहरणादिभिः प्रतिष्ठिता जिनैः प्रज्ञप्ता भावाः- पदार्था अन्येऽप्यजीवादयः आघविजंति त्ति प्राकृत-शैल्या आख्यायन्ते-सामान्यविशेषाभ्यां कथ्यन्त इत्यर्थः, प्रज्ञाप्यन्तेनामादिभेदाभिधानेन, प्ररूप्यन्ते नामादिस्वरूपकथनेन, यथा 'पज्जायाणभिधेय' मित्यादि, दर्श्यन्ते उपमामात्रतः यथा गौर्गवयस्तथा' इत्यादि, निदर्श्यन्ते हेतुदृष्टान्तोपन्यासेन उपदर्श्यन्ते उपनयनिगमनाभ्यांसकलनयाभिप्रायतोवेति, साम्प्रतमाचाराङ्गग्रहणफलप्रतिपादनायाह-से एव मित्यादि, स इत्याचाराङ्गग्राहको गृह्यते, एवं आय त्ति अस्मिन् भावतः सम्यगधीते सत्येवमात्मा भवति, तदुक्तक्रियापरिणामाव्यतिरेकात् स एव भवतीत्यर्थः, इदंच सूत्रं पुस्तकेषुन दृष्टं नन्द्यांतुदृश्यते इतीह व्याख्यातमिति, एवं क्रियासारमेव ज्ञानमिति ख्यापनार्थं क्रियापरिणाममभिधायाधुना ज्ञानमधिकृत्य आह- एवं नाय त्ति इदमधीत्य एवं ज्ञाता भवति यथैवेहोक्तमिति, एवं विन्नाय त्ति विविधो विशिष्टो वा ज्ञाता विज्ञाता एवं विज्ञाता भवति , तन्त्रान्तरीयज्ञातृभ्यः प्रधानतर इत्यर्थः, एव मित्यादि निगमनवाक्यम्, एवं- अनेन प्रकारेणाचारगोचरविनयाद्यभिधानरूपेण चरणकरणप्ररूपणता आख्यायत इति चरणं व्रतश्रमणधर्मसंयमाद्यनेकविधं करणं-पिण्डविशुद्धिसमित्याद्यनेकविधं तयोः प्ररूपणता-प्ररूपणैव आख्यायते इत्यादि पूर्ववदिति, से तं आयारे त्ति तदिदमाचारवस्तु अथवा सोऽयमाचारो यः पूर्वपृष्ट इति // 1 // // 136 // से किंतंसूयगडे?,सूयगडेणं ससमया सूइज्जंति परसमया सूइज्जति ससमयपरसमया सूइज्जति जीवा सूइज्जंति अजीवा सूइजंति जीवाजीवा सूइज्जंति लोगो सूइज्जति अलोगो सूइज्जति लोगालोगो सुइज्जति, सूअगडेणंजीवाजीवपुण्णपावासवसंवरनिज्जरणबंध® भवति- तन्त्रान्तरीयज्ञाता भवति, तन्त्रा० (मु०)। 0 पूर्व दृष्ट (मु०)।