________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 190 // सूत्रम् 136 द्वादशाङ्गम् आचारागाधिकारः विमोहो 7 महापरिण्णो 8 वहाणसुयं ९॥१॥इति प्रथमश्रुतस्कन्धः, पिंडेसण 1 सेजि 2 रिया 3 भासज्जाया य 4 वत्थ 5 पाएसा 6 / / उग्गहपडिमा 7 सत्तसत्तिक्कया 14 भावण 15 विमुत्ती १६॥२॥इति द्वितीयश्रुतस्कन्धः, एवमेतानि निशीथवर्जानि पञ्चविंशतिर-8 ध्ययनानि, तथा पञ्चाशीतिरुद्देशनकालाः, कथं? उच्यते, अङ्गस्य श्रुतस्कन्धस्याध्ययनस्योद्देशकस्य चैतेषां चतुर्णामप्येक एवोद्देशनकालः, एवं च शस्त्रपरिज्ञादिषु पञ्चविंशतावध्ययनेषु क्रमेण सप्त 1 षट् 2 चतु 3 श्चतुः 4 षट् 5 पञ्च 6 अष्ट 7 सप्त 8 चतु 9 रेकादश 10 त्रि 11 त्रि 12 द्वि 13 द्वि 14 द्वि 15 द्वि 16 संख्या उद्देशनकालाः षोडशस्वध्ययनेषु शेषेषु नवसु नवैवेति, इह सङ्ग्रहगाथा- सत्त य छ चउ चउरो छ पञ्च अट्टेव सत्त चउरो य / एक्कारा ति ति दो दो दो दो सत्तेक्क एक्को य॥१॥ त्ति, एवं समुद्देशनकाला अपि भणितव्याः, अष्टादश पदसहस्राणि पदाग्रेण प्रज्ञप्तः, इह यत्रार्थोपलब्धिस्तत्पदम्, ननु यदि द्वौ श्रुतस्कन्धौ पञ्चविंशतिरध्ययनान्यष्टादश पदसहस्राणि पदाग्रेण भवन्ति ततो यद्भणितं नवबंभचेरमइओ अट्ठारसपदसहस्सिओ वेउ त्ति तत्कथं न विरुध्यते?, उच्यते, यत् द्वौ श्रुतस्कन्धावित्यादि तदाचारस्य प्रमाणं भणितम्, यत्पुनरष्टादश पदसहस्राणि तन्नवब्रह्मचर्याध्ययनात्मकस्य प्रथमश्रुतस्कन्धस्य प्रमाणम्, विचित्रार्थबद्धानि च सूत्राणि, गुरूपदेशतस्तेषामर्थोऽवसेय इति, संख्येयानि अक्षराणि, वेष्टकादीनां संख्येयत्वात्, अनन्ता गमाः, इह गमा:- अर्थगमा गृह्यन्ते अर्थपरिच्छेदा इत्यर्थः, ते चानन्ताः, एकस्मादेव सूत्रात्तत्तद्धर्म-विशिष्टानन्तधर्मात्मकवस्तुप्रतिपत्तेः, अन्ये तु व्याचक्षते-अभिधानाभिधेयवशतोगमा भवन्ति, ते चानन्ताः, अनन्ताः पर्यायाः स्वपरभेदभिन्ना अक्षरार्थपर्याया इत्यर्थः, परित्तास्त्रसा आख्यायन्त इति योगः, बसन्तीति त्रसाः-द्वीन्द्रियादयस्ते च परित्तानानन्ताः, एवंरूपत्वादेव तेषाम्, अनन्ताः स्थावरा वनस्पतिकायसहिताः, किंभूता 0 परीत्ता० (प्र०)। // 190