________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 189 // आचारा चव्रतानि च नियमाश्च तपउपधानं चेति समाहारद्वन्द्वस्ततस्तच्च तत्सुप्रशस्तं चेति कर्मधारयः, एतत्सर्वमाख्यायते-अभिधीयते, सूत्रम् 136 एतेषु चाचारादिपदेषु यत्र क्वचिदन्यतरोपादाने अन्यतरस्य गतार्थस्याभिधानं तत्सर्वं तत्प्राधान्यख्यापनार्थमेवेत्यवसेयमिति। द्वादशाङ्गम् से समासओ इत्यादि, स आचारो यमधिकृत्य ग्रन्थस्याचार इति संज्ञा प्रवर्त्तते समासतः संक्षेपतः पञ्चविधः प्रज्ञप्तः, तद्यथा- ङ्गाधिकारः ज्ञानाचार इत्यादि, तत्रज्ञानाचारः-श्रुतज्ञानविषयः कालाध्ययनविनयाध्ययनादिरूपो व्यवहारोऽष्टधा दर्शनाचारः सम्यक्त्ववतां व्यवहारो निःशङ्कितादिरूपोऽष्टधा चारित्राचारः चारित्रिणां समित्यादिपालनात्मको व्यवहारः तपआचारो द्वादशविधतपोविशेषानुष्ठितिः वीर्याचारो ज्ञानादिप्रयोजनेषु वीर्यस्यागोपनमिति, आयारस्स त्ति आचारग्रन्थस्य णमित्यलङ्कारे परित्ता संख्येया आद्यन्तोपलब्धेर्नानन्ता भवतीत्यर्थः, का?- वाचना-सूत्रार्थप्रदानलक्षणा, अवसर्पिण्युत्सर्पिणीकालं वा प्रतीत्य, परीत्ते ति संख्येयान्यनुयोगद्वाराणि-उपक्रमादीनि, अध्ययनानामेव संख्येयत्वात् प्रज्ञापकवचनगोचरत्वाच्च संखेज्जाओपडिवत्तीओ त्ति द्रव्यादिपदार्थाभ्युपगमा प्रतिमाद्यभिग्रहविशेषा वा संखेज्जा वेढ त्ति वेष्टका:- छन्दोविशेषाः, एकार्थप्रतिबद्धवचनसङ्कलिकेत्यन्ये, संखेज्जा सिलोग त्ति श्लोकाः- अनुष्टुप्छन्दांसि संख्याता:निर्युक्तयः निर्युक्तानां- सूत्रेऽभिधेयतया व्यवस्थापितानामर्थानां युक्ति:- घटना विशिष्टा योजना निर्युक्तयुक्तिः, एतस्मिंश्च वाच्ये युक्तशब्दलोपान्नियुक्तिरित्युच्यते, एताश्च निक्षेपनियुक्त्याद्याः संख्येया इति।सेणं मित्यादि स आचारोणमित्यलङ्कारे अङ्गार्थतया अङ्गलक्षणवस्तुत्वेन प्रथममङ्गं स्थापनामधिकृत्य, रचनापेक्षया तु द्वादशमङ्गं प्रथमम्, पूर्वगतस्य सर्वप्रवचनात् पूर्वं क्रियमाणत्वादिति, द्वौ श्रुतस्कन्धौ अध्ययन तस्कन्या अध्ययन-8॥१८९॥ समुदायलक्षणी, पञ्चविंशतिरध्ययनानि, तद्यथा- सत्थपरिण्णा 1 लोगविजओ 2 सीओसणिज्ज 3 संमत्तं 4 / आवंति 5 धुय 6 ®भवन्तीत्यर्थ: का:? वाचना:..लक्षणा० (मु०)। 7 परिते(मु०)। 0 द्रव्यार्थे पदार्थाभ्युपगमा मन्तातराणीत्यर्थः (मु०)। 0 वाक्ये (मु०) 0 पूर्वं तस्य(मु०)।