SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्गं श्रीअभय वृत्तियुतम् // 188 // सूत्रम् 136 द्वादशाङ्गम् आचाराङ्गाधिकारः (आचा० नि०१०) परिच्छेदस्थानमित्यर्थः, ततश्च परिच्छेदसमूहो गणिपिटकम्, अत्र चैवं पदूघटना- यदेतद्गणिपिटकं तद् द्वादशाङ्गं प्रज्ञप्तम्, तद्यथा- आचारः सूत्रकृत इत्यादि। से किं त मित्यादि, अथ किं तदाचारवस्तु?, आचरणं- आचारः आचर्यत इति वा आचारः, कोऽयमाचारः?, साध्वाचरितो ज्ञानाद्यासेवनविधिरिति भावार्थः, एतत्प्रतिपादको ग्रन्थोऽप्याचार एवोच्यते, आयारेणं ति अनेनाचारेण करणभूतेन श्रमणानामांचाराद्याख्यायत इति योगः, अथवा आचारेऽधिकरणभूते णमिति वाक्यालङ्कारे श्रमणानां तपःश्रीसमालिङ्गितानां निर्ग्रन्थानां सबाह्याभ्यन्तरग्रन्थरहितानाम्, आह-श्रमणा निर्ग्रन्था एव भवन्तीति विशेषणं किमर्थमिति?, उच्यते, शाक्यादिव्यवच्छेदार्थम्, उक्तंच-निग्गंथसक्कातावसगेरुयआजीव पंचहा समण त्ति / तत्राचारो-ज्ञानाद्यनेकभेदभिन्नः गोचरो-भिक्षाग्रहणविधिलक्षणो विनयो- ज्ञानादिविनयः वैनयिक-तत्फलं कर्मक्षयादि स्थानं-कायोत्सर्गोपवेशनशयनभेदात् त्रिरूपंगमनं-विहारभूम्यादिषु गतिश्चङ्कमणं-उपाश्रयान्तरे शरीरश्रमव्यपोहाद्यर्थमितस्ततः सञ्चरणं प्रमाणं- भक्तपानाभ्यवहारोपध्यादेर्मानं योगयोजनं-स्वाध्यायप्रत्युपेक्षणादिव्यापारेषु परेषां नियोजनं भाषा-संयत भाषा सत्याऽसत्यामृषारूपा समितयः- ईर्यासमित्याद्याः पञ्च गुप्तयो- मनोगुप्त्यादयस्तिस्रः तथा शय्या च- वसतिरुपधिश्चवस्त्रादिको भक्तं च- अशनादि पानं च- उष्णोदकादीति द्वन्द्वः, तथा उद्गमोत्पादनैषणालक्षणानां दोषाणां विशुद्धिः- अभाव उद्गमोत्पादनैषणाविशुद्धिस्ततः शय्यादीनामुद्रमादिविशुद्ध्या शुद्धानां तथाविधकारणेऽशुद्धानां च ग्रहणं शय्यादिग्रहणम्, तथा व्रतानि- मूलगुणा नियमाः- उत्तरगुणास्तपउपधानं- द्वादशविधं तपः, तत आचारच गोचरश्चेत्यादि यावगुप्तयश्च शय्यादिग्रहणं 0वस्तु? यद्धा अथ कोऽयमाचार:? आचर्यत..आचार: साध्वाचरितो(मु०) चारो व्याख्या०(मु०) 0 निर्ग्रन्थशाक्यतापसगैरिकाजीविकाः पञ्चधा श्रमणाः10 व्यपोहार्थ० (मु०)10 भाषा:- संयतस्य भाषा: (मु०)।
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy