SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 173 // सूत्रम् 98 98 समवायः मन्दरगोस्तूपादिः नन्दनोपरितनादिः खेत्तस्स अभिनिवुद्वित्ता णं सूरिए चारं चरइ, दक्खिणाओ णं कट्ठाओ सूरिए दोच्चं छम्मासं अयमाणे एगूणपन्नासइमे मंडलगते अट्ठाणउइ एकसट्ठिभाए मुहुत्तस्स रयणिखित्तस्स निवुहेत्ता दिवसखेत्तस्स अभिनिवुट्टित्ता णं सूरिए चारं चरइ, रेवईपढमजेट्ठापज्जवसाणाणं एगूणवीसाए नक्खत्ताणं अट्ठाणउइ ताराओ तारग्गेणं प०॥ सूत्रम् 18 // अथाष्टनवतिस्थानके किञ्चिदभिधीयते-नंदणवणे त्यादेर्भावार्थोऽयं-नन्दनवनं मेरोः पञ्चयोजनशतोच्छ्रितप्रथममेखलाभावि पञ्चयोजनशतोच्छ्रितं तद्गतपञ्चयोजनशतोच्छ्रितकूटाष्टकस्य तद्हणेन ग्रहणात् तथा पण्डकवनं च मेरुशिखरव्यवस्थितं अतो नवनवत्या मेरोरुच्चैस्त्वस्य आद्ये सहस्रे अपकृष्टे यथोक्तमन्तरं भवतीति।गोस्तुभसूत्रभावार्थ:पूर्ववन्नवरंगोस्तुभविष्कम्भसहस्रे क्षिप्ते यथोक्तमन्तरं भवतीति / वेयवस्स ण मित्यादिर्यः केषुचित्पुस्तकेषु दृश्यते सोऽपपाठः, सम्यक्पाठश्चायं- दाहिणभरहड्डस्स णं धणुपट्टे अट्ठाणउई जोयणसयाई किंचूणाई आयामेणं पण्णत्ते इति, यतोऽन्यत्रोक्तं- नव चेव सहस्साइं छावट्ठाईसयाइं सत्त भवे। सविसेस कला चेगा दाहिणभरहड्ड धणुपटुं // 1 // (बृहत्क्षे० 43)(9607) ति, वैताढ्यधनुःपृष्ठं त्वेवमुक्तमन्यत्र- दस चेव सहस्साई सत्तेव सया हवंति तेयाला / धणुपट्ट वेयड्ड कला य पण्णारस हवंति॥१॥ (बृहत्क्षे० 45) (1074365 ) उत्तराओ ण मित्यादेर्भावार्थः पूर्वोक्तभावनानुसारेणावसेयः, नवरमिह एक्केतालीसइमें इति केषुचित्पुस्तकेषु दृश्यते सोऽपपाठः, एगूणपञ्चासइमे त्ति एकोनपञ्चाशतो द्विगुणत्वे अष्टनवतिर्भवति, द्वयगुणनंच प्रतिमण्डलं मुहूःकषष्टिभागद्वयवृद्धेर्दिनस्य रात्रेति। रेवई त्यादि, रेवतिः प्रथमा येषांतानि रेवतिप्रथमानि तथा ज्येष्ठा पर्यवसाने येषां तानि ज्येष्ठापर्यवसानानि तानि च तानि चेति कर्मधारयस्तेषामेकोनविंशतेर्नक्षत्राणामष्टनवतिस्तारास्तारापरिमाणेन प्रज्ञप्ताः, तथाहि- रेवतिनक्षत्रं द्वात्रिंशत्तारं 32 अश्विनी ®क्तानुसारे० (प्र०)। (c) एकताली (मु०)। // 173 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy