SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् सूत्रम् 92 ९२समवायः प्रतिमेन्द्रभूत्यायुषादिः // 168 // बाणउई पडिमाओप०, थेरेणं इंदभूती बाणउइ वासाइंसव्वाउयंपालइत्ता सिद्ध बुद्धे, मंदरस्सणंपव्वयस्स बहुमज्झदेसभागाओ गोथुभस्स आवासपव्वयस्स पच्चच्छिमिल्लेचरमंते एसणंबाणउइंजोयणसहस्साई अबाहाए अंतरे प०, एवं चउण्हंपि आवासपव्वयाणं ॥सूत्रम् 92 // अथ द्विनवतिस्थानके किमप्यभिधीयते, द्विनवतिः प्रतिमाः- अभिग्रहविशेषाः, ताश्च दशाश्रुतस्कन्धनिर्युक्त्यनुसारेण दर्श्यन्ते, तत्र किल पञ्च प्रतिमा उक्ताः, तद्यथा- समाधिप्रतिमा 1 उपधानप्रतिमा 2 विवेकप्रतिमा 3 प्रतिसंलीनताप्रतिमा 4 एकविहारप्रतिमा चेति 5, तत्र समाधिप्रतिमा द्विविधा श्रुतसमाधिप्रतिमा चारित्रसमाधिप्रतिमा च, दर्शनं ज्ञानान्तर्गतमिति न भिन्ना दर्शनप्रतिमा विवक्षिता, तत्र श्रुतसमाधिप्रतिमा द्विषष्टिभेदा, कथं? आचारे प्रथमे श्रुतस्कन्धे पञ्च द्वितीये सप्तत्रिंशत् स्थानाङ्गेषोडश व्यवहारे चतस्र इत्येता द्विषष्टिः, एताश्च चरित्रस्वभावा अपि विशिष्टश्रुतवतां भवन्तीति श्रुतप्रधानतया श्रुतसमाधिप्रतिमात्वेनोपदिष्टा इति सम्भावयामः, पञ्चसामायिकच्छेदोपस्थापनीयाद्याश्चारित्रसमाधिप्रतिमाः, उपधानप्रतिमा द्विविधा भिक्षुश्रावकभेदात्, तत्र भिक्षुप्रतिमा मासाईसत्तंता (पञ्चा०१८/३) इत्यादिनाऽभिहितस्वरूपा द्वादश उपासकप्रतिमास्तु दसणवय(पञ्चा०१०/३)इत्यादिनाऽभिहितस्वरूपा एकादशेति सर्वास्त्रयोविंशतिर्विवेकप्रतिमा त्वेका क्रोधादेराभ्यन्तरस्य गणशरीरोपधिभक्तपानादेर्बाह्यस्य च विवेचनीयस्यानेकत्वेऽप्येकत्वविवक्षणादिति, प्रतिसंलीनताप्रतिमाऽप्येकैव इन्द्रियस्वरूपस्य पञ्चविधस्य नोइन्द्रियस्वभावस्य च योगकषायविविक्तशयनासनभेदतस्त्रिविधस्य प्रतिसंलीनताविषयस्य भेदेनाविवक्षणादिति, पञ्चम्येकविहारप्रतिमैकैव, न चेह सा भेदेन विवक्षिता, भिक्षुप्रतिमास्वन्तर्भावितत्वादित्येवं द्विषष्टिःपञ्च। त्रयोविंशतिरेका एकाच द्विनवतिस्ता भवन्तीति / स्थविर इन्द्रभूतिर्महावीरस्य प्रथमगणनायकः, स च गृहस्थपर्यायं पञ्चाशतं // 168 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy