SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 165 // सूत्रम् 89 ८९समवायः ऋषभवीरादिः सूत्रम् 90 ९०समवायः शीतलोचत्वादिः सूत्रम् 91 ९१समवायः वैयावृत्त्य प्रतिमादिः संतिस्स णं अरहओ एगूणनउई अञ्जासाहस्सीओ उक्कोसिया अज्जियासंपया होत्था॥सूत्रम् 89 // अथैकोननवतिस्थानके किञ्चिद्विचार्यते- तइयाए समाए त्ति सुषमदुष्षमाभिधानाया एकोननवत्यामर्द्धमासेषु त्रिषु वर्षेषु अर्द्धनवसुच मासेषु सत्स्विति गम्यते, जाव त्ति करणात् अन्तगडे सिद्धे बुद्धे मुत्ते त्ति दृश्यम्, हरिषेणचक्रवर्ती दशमस्तस्य च दश वर्षसहस्राणि सर्वायुस्तत्र च शतोनानि नव सहस्राणि राज्यं शेषाण्येकादश शतानि कुमारत्वमाण्डलिकत्वानगारत्वेषु अवसेयानि, इह शान्तिजिनस्यैकोननवतिरार्यिकासहस्राण्युक्तान्यावश्यके त्वेकषष्टिः सहस्राणि शतानि च षडभिधीयन्त इति मतान्तरमेतदिति // 89 // सीयले णं अरहा नउई धणूई उडे उच्चत्तेणं होत्था, अजियस्स णं अरहओ नउई गणा नउई गणहरा होत्था, एवं संतिस्सवि, सयंभुस्स णं वासुदेवस्स णउइवासाई विजए होत्था, सव्वेसिणं वट्टवेयड्डपव्वयाणं उवरिल्लाओ सिहरतलाओ सोगंधियकण्डस्स हेडिल्ले चरमंते एस णं नउइजोयणसयाई अबाहाए अंतरे प०॥ सूत्रम् 90 // अथ नवतिस्थानके किञ्चिव्याख्यायते, तत्राजितनाथस्य शान्तिनाथस्य चेह नवतिर्गणा गणधराश्चोक्ताः आवश्यकेतु पञ्चनवतिरजितस्य षट्त्रिंशत्तुशान्तेरुक्तास्तदिदमपि मतान्तरमिति, तथा स्वयम्भूः- तृतीयवासुदेवस्तस्य नवतिर्वर्षाणि विजयः- पृथिवीसाधनव्यापारः, सव्वेसिण मित्यादि, सर्वेषां विंशतेरपि वर्तुलवैताढ्यानां-शब्दापातिप्रभृतीनांयोजनसहस्रोच्छ्रितत्वात् सोगन्धिककाण्डचरमान्तस्य चाष्टसुसहस्रेषु व्यवस्थितत्वात् नवसुसहस्रेषु नवतेः शतानां भावात् सूत्रोक्तमन्तरमनवद्यमिति // 90 // एकाणउई परवेयावच्चकम्मपडिमाओ प०, कालोएणं समुद्दे एकाणउई जोयणसयसहस्साइंसहियाई परिक्खेवेणं प०, कुंथुस्स 0 नवतिवर्षाणि (मु०)। 8888888888888888
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy