SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 163 // सूत्रम् 88 88 समवायः महाग्रहादिः द्वे अष्टाविंशतिः चतम्रो द्विचत्वारिंशद् द्वे चेत्येतासां मीलने सूत्रोक्तसंख्या स्यादिति / महाहिमवन्ते त्यादि, महाहिमवति द्वितीयवर्षधरपर्वते अष्टौ सिद्धायतनकूटमहाहिमवत्कूटादीनि कूटानि भवन्ति, तानि च पञ्चशतोच्छ्रितानि, तत्र महाहिमवत्कूटस्य पञ्चशतानि द्वेशते महाहिमवद्वर्षधरोच्छ्रयस्य अशीतिश्चशतानि प्रत्येकं सहस्रमानानामष्टानां सौगन्धिककाण्डावसानानां रत्नप्रभाखरकाण्डावान्तरकाण्डानामित्येवं मीलिते सप्ताशीतिरन्तरं भवतीति, एवं रुप्पिकूडस्सवि त्ति रुक्मिणि पञ्चमवर्षधरे यद्वितीयं रुक्मिकूटाभिधानं कूटं तस्याप्यन्तरं महाहिमवत्कूटस्येव वाच्यम्, समानप्रमाणत्वाद् द्वयोरपीति / / 87 // ___एगमेगस्सणंचंदिमसूरियस्स अट्ठासीइ महग्गहा परिवारोप०, दिट्ठिवायस्सणं अट्ठासीई सुत्ताइंप०, तं०- उज्जुसुयं परिणयापरिणयं एवं अट्ठासीई सुत्ताणि भाणियव्वाणि जहा नंदीए, मंदरस्सणं पव्वयस्स पुरच्छिमिल्लाओ चरमंताओ गोथुभस्स आवासपव्वयस्स पुरच्छिमिल्ले चरमंते एस णं अट्ठासीइंजोयणसहस्साई अबाहाए अंतरे प०, एवं चउसुवि दिसासु नेयव्वं, बाहिराओ उत्तराओणं कट्ठाओ सूरिए पढमछम्मासं अयमाणे चोयालीसइमे मंडलगते अट्ठासीति इगसट्ठिभागे मुहुत्तस्स दिवसखेत्तस्स निवुड्ढेत्तारयणिखेत्तस्स अभिनिवुवेत्ता सूरिए चारं चरइ, दक्खिणकट्ठाओ णं सूरिए दोच्चं छम्मासं अयमाणे चोयालीसतिमे मंडलगते अट्ठासीई इगसट्ठिभागे मुहत्तस्स रयणिखेत्तस्स निवुहेत्ता दिवसखेत्तस्स अभिनिवुट्टित्ताणं सूरिए चारंचरइ॥सूत्रम् 88 // अथाष्टाशीतिस्थानके किश्चिद्विवियते, एकैकस्यासंख्यातानामपि प्रत्येकमित्यर्थः, चन्द्रमाश्च सूर्यश्च चन्द्रमःसूर्यं तस्य, चन्द्रसूर्ययुगलस्य इत्यर्थः, अष्टाशीतिर्महाग्रहाः, एते च यद्यपि चन्द्रस्यैव परिवारोऽन्यत्र श्रूयते तथापि सूर्यस्यापीन्द्रत्वादेत एव परिवारतयाऽवसेया इति / दिट्ठिवाए त्यादि, दृष्टिवादस्य- द्वादशाङ्गस्य परिकर्मसूत्रपूर्वगतप्रथमानुयोगचूलिकाभेदेन पञ्च (r) चेत्यतस्तासां (मु०)। // 163 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy