SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 161 // ८६समवायः गणादिः तासु च प्रथमद्वितीये सप्तसप्ताध्ययनात्मिके तृतीयचतुर्थ्यावेकैकाध्ययनात्मिकेतदेवंसह चूलिकाभिर्वर्त्तत इति सचूलिकाक सूत्रम् 85 स्तस्य पञ्चाशीतिरुद्देशनकाला भवन्तीति, प्रत्यध्ययनं उद्देशकानामेतावत्संख्यत्वात्, तथाहि-प्रथमश्रुतस्कन्धे नवस्वध्ययनेषु 85 समवायः आचारोक्रमेण सप्त 7 षट् 13 चत्वार 17 श्चत्वारः 21 षट् 27 पञ्च 32 अष्ट 40 चत्वारः 44 सप्त 51 चेति, द्वितीयश्रुतस्कन्धे तु प्रथमचूलायां सप्तस्वध्ययनेषुक्रमेण एकादश ६२त्रय ६५स्त्रयः 68 चतुर्युद्वौ द्वौ 76 द्वितीयायांसप्तैकसराणि 83 अध्ययना सूत्रम् 86 न्येवं तृतीयैकाध्ययनात्मिका 84 एवं चतुर्थ्यपीति 85 सर्वमीलने पञ्चाशीतिरिति / तथा धातकीखण्डमन्दरौ सहस्रमवगाढौ। सुविधिचतुरशीतिःसहस्राण्युच्छ्रिताविति पञ्चाशीतिर्योजनसहस्राणि सर्वाग्रेण भवतः, पुष्करार्द्धमन्दरावप्येवम्, नवरं सूत्रे नाभिहितौ विचित्रत्वात्सूत्रगतेरिति, तथा रुचको-रुचकाभिधानस्त्रयोदशद्वीपान्तर्गतः प्राकाराकृती रुचकद्वीपविभागकारितया स्थितः, अत एव माण्डलिकपर्वतो मण्डलेन व्यवस्थितत्वात्, स च सहस्रमवगाढश्चतुरशीतिरुच्छ्रित इति पञ्चाशीतिः सहस्राणि सर्वाग्रेणेति, तथा नन्दनवनस्य मेरोः पञ्चयोजनशतोच्छ्रितायांप्रथममेखलायां व्यवस्थितस्याधस्त्याच्चरमान्तात् सौगन्धिककाण्डस्य रत्नप्रभापृथिव्याः खरकाण्डाभिधानप्रथमकाण्डस्यावान्तरकाण्डभूतस्याष्टमस्य सौगन्धिकाभिधानरत्नमयस्य सौगन्धिककाण्डस्याधस्त्यश्चरमान्तः पञ्चाशीतिर्योजनशतान्यन्तरमाश्रित्य भवति, कथं?, पञ्च शतानि मेरोः सम्बन्धीनि प्रत्येकं च सहस्रप्रमाणत्वादवान्तरकाण्डानामष्टमकाण्डमशीतिः शतानीति // 85 // सुविहिस्सणं पुप्फदन्तस्स अरहओ छलसीइगणा छलसीइगणहरा होत्था, सुपासस्स णं अरहओ छलसीई वाइसया होत्था, दोच्चाए णं पुढवीए बहुमज्झदेसभागाओ दोच्चस्स घणोदहिस्स हेट्ठिल्ले चरमंते एस णं छलसीइ जोयणसहस्साई अबाहाए अंतरे प० O चूलिकायां (मु०)। 0 ०शीतिसह० (मु०)। 0 ०शीतिशतानि (मु०)।
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy