________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 159 // सूत्रम् 84 84 समवायः नरका नयो- जीवोत्पत्तिस्थानानि ता एव प्रमुखानि- द्वाराणि योनिप्रमुखानि तेषां शतसहस्राणि-लक्षाणि योनिप्रमुखशतसहस्राणि प्रज्ञप्तानि, कथं?-पुढविदगअगणिमारुय एक्कक्के सत्त जोणिलक्खाओ। वण पत्तेय अणंते दस चोद्दस जोणिलक्खाओ // 1 // | विगलिंदिएस दो दो चउरो चउरो य नारयसुरेसु / तिरिएसु होंति चउरो चोद्दसलक्खा य मणुएसु॥२॥ (बृहत्सं० ३५१-५२)त्ति, इह / वासादिः च जीवोत्पत्तिस्थानानामसंख्येयत्वेऽपि समानवर्णगन्धरसस्पर्शानां तेषामेकत्वविवक्षणान्न यथोक्तयोनिसंख्याव्यभिचारो मन्तव्य इति, पुव्वाइयाण मित्यादि, पूर्वमादिर्येषांतानि पूर्वादिकानि तेषांशीर्षप्रहेलिका पर्यवसाने येषांतानि शीर्षप्रहेलिकापर्यवसानानि तेषां स्वस्थानात्- पूर्वपूर्वस्थानादुत्तरोत्तरस्य संख्यास्थानस्योत्पत्तिस्थानात् संख्याविशेषलक्षणात् गुणनीयादित्यर्थः स्थानानन्तराणि अनन्तरस्थानान्यव्यवहितसङ्ख्याविशेषा गुणकारनिष्पन्ना येषु तानि स्वस्थानस्थानान्तराणि क्रमव्यवस्थितसङ्ख्यास्थानविशेषा इत्यर्थः, अथवा स्वस्थानानि- पूर्वस्थानानि स्थानान्तराणि च-अनन्तरस्थानानिस्वस्थानस्थानान्तराणि अथवा स्वस्थानात्-प्रथमस्थानात् पूर्वाङ्गलक्षणात् स्थानान्तराणि-विलक्षणस्थानानि स्वस्थानस्थानान्तराणि तेषां चतुरशीत्या / लक्षैरिति शेषः, गुणकार:-अभ्यासराशिः प्रज्ञप्तः, तथाहि-किल चतुरशीत्या लक्षैः पूर्वाङ्गं भवतीति स्वस्थानम्, तदेव चतुरशीत्या लक्षैर्गुणितंपूर्वमुच्यते, तच्च स्थानान्तरमिति, एवं पूर्वस्वस्थानंतदेव चतुरशीत्या लक्षैर्गुणितमनन्तरस्थानं त्रुटिताङ्गाभिधानं भवति, अत्र सङ्ग्रहगाथै -"पुन्वतुडियाडडाववहुहूय तह उप्पले य पउमे य / नलिणत्थनिउर अउए नउए पउए नायव्वे // 1 // 0 पृथ्वीदकाग्निमरुतामेकैकस्मिन् सप्त योनिलक्षाः / वने प्रत्येकानन्तयोर्दश चतुर्दश योनिलक्षाः॥ 1 // विकलेन्द्रियेषु द्वे द्वे चतस्रः चतस्रश्च नारकसुरयोः। तिर्यक्षु भवन्ति चतस्रश्चतुर्दश लक्षास्तु मनुजेषु // 2 // ॐ भवतीति इह सङ्ग्रहगाथा (मु०) 0 पूर्व-त्रुटित-अटट-अवव-हुहूय तथा उत्पल-पद्म-नलिन-अर्थनिपूर-अयुतनयुत-प्रयुतः ज्ञातव्यः। - चउदस (मु०)।