________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 155 // सूत्रम् 82 82 समवायः जम्बूद्वीपादिः नवकेषु नव नवमदिनानि, तस्यांच भिक्षुप्रतिमायामेकाशीती रात्रिंदिवानि भवन्ति, एवं नवानां नवकानामेकाशीतिरूपत्वात्, तथा प्रथमे नवके प्रतिदिनमेकैका भिक्षा एवमेकोत्तरया वृद्ध्या नवमे नवके नव नवेति सर्वासां पिण्डने चत्वारि पञ्चोत्तराणि भिक्षाशतानि भवन्तीत्यत उक्तं 'चउहि ये'त्यादि, इह च भिक्षाशब्देन दत्तिरभिप्रेता अहासुत्तं ति यथासूत्रं- सूत्रानतिक्रमेण जाव त्तिकरणाद्यथाकल्पं यथामार्ग यथातत्त्वं सम्यक्कायेन स्पृष्टा पालिता शोभिता तीरिता कीर्त्तिता आज्ञयाऽऽराधितेति द्रष्टव्यं वियाहपन्नत्तीए त्ति व्याख्याप्रज्ञप्त्यामेकाशीतिर्महायुग्मशतानि प्रज्ञप्तानि, इह शतशब्देनाध्ययनान्युच्यन्ते, तानि कृतयुग्मादिलक्षणराशिविशेषविचाररूपाणि अत्र अवान्तराध्ययनस्वभावानि तदवगमावगम्यानीति // 81 // जम्बुद्दीवे दीवे बासीयं मंडलसयं जं सूरिए दुक्खुत्तो संकमित्ताणं चारं चरइ तं०- निक्खममाणे य पविसमाणे य, समणे भगवं महावीरे बासीए राइदिएहिं वीइक्वंतेहिं गब्भाओ गब्भं साहरिए, महाहिमवंतस्स णं वासहरपव्वयस्स उवरिल्लाओ चरमंताओ सोगंधियस्स कंडस्स हेछिल्ले चरमंते एस णं बासीइंजोयणसयाई अबाहाए अंतरे प०, एवं रुप्पिस्सवि।सूत्रम् 82 // अथ व्यशीतिस्थानके किमपि लिख्यते, तत्र जम्बूद्वीपे व्यशीतं व्यशीत्यधिकं मण्डलशतं- सूर्यस्य मार्गशतं यद्भवतीति वाक्यशेषः, किंभूतं? - यत् सूर्यो द्विकृत्वो- द्वौ वारौ संक्रम्य- प्रविश्य चारं चरति, तद्यथा- निष्कामंश्च जम्बूद्वीपात् प्रविशंश्च जम्बूद्वीप एवेति,अयमत्र भावार्थ:-किल चतुरशीत्यधिकं सूर्यमण्डलशतं भवति, तत्र सर्वाभ्यन्तरे सर्वबाहो सकृदेव संक्रामति शेषाणि तु द्वौ वाराविति, इह च व्यशीतिविवक्षयैवेदं व्यशीतिस्थानकेऽधीतमिति भावनीयम्, यद्यपि जम्बूद्वीपे पञ्चषष्टिरेव मण्डलानां भवति तथापि जम्बूद्वीपकसूर्यचारविषयत्वाच्छेषाण्यपिजम्बूद्वीपेन विशेषितानीति, समणे इत्यादि आषाढशुक्ल®दिनानि (मु०)।® अत्रान्तर० (मु०)10 न्तरसर्व० (प्र०)। आषाढस्य शुक्लपक्षषष्ट्या (मु०)। // 155 //