SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्गं श्रीअभय वृत्तियुतम् | // 153 // अथैकोनाशीतितमस्थानके किञ्चिल्लिख्यते, तत्र वलयामुहस्स त्ति वडवामुखाभिधानस्य पूर्वदिग्व्यवस्थितस्य पायालस्स सूत्रम् 79 त्ति महापातालकलशस्याधस्तनचरमान्ताद्रत्नप्रभापृथिवीचरमान्त एकोनाशीत्यांसहस्रेषु भवति, कथं? रत्नप्रभा हि अशीति-2 ७९समवायः पातालादिः सहस्राधिकं योजनानां लक्षं बाहल्यतो भवति, तस्याश्चैकं समुद्रावगाहसहस्रं परिहृत्याधोलक्षप्रमाणावगाहो वलयामुखपातालकलशो भवति, ततस्तच्चरमान्तात् पृथिवीचरमान्तो यथोक्तान्तर एवं भवति, एवमन्येऽपि त्रयो वाच्या इति, छट्ठीए इत्यादि, अस्य भावार्थ:- षष्ठपृथिवी हि बाहल्यतो योजनानां लक्षंषोडश च सहस्राणि भवति, घनोदधयस्तु यद्यपि सप्तापि प्रत्येक विंशतिः सहस्राणि स्युस्तथाप्येतस्य ग्रन्थस्य मतेन षष्ठोऽसावेकविंशतिः संभाव्यते, तदेवं षष्ठपृथिवीबाहल्यार्द्धमष्टपञ्चाशत् घनोदधिप्रमाणं चैकविंशतिरित्येवमेकोनाशीतिर्भवति, ग्रन्थान्तरमतेन तु सर्वघनोदधीनां विंशतियोजनसहस्रबाहल्यत्वात्पञ्चमीमाश्रित्येदं सूत्रमवसेयम्, यतस्तद्वाहल्यमष्टादशोत्तरं लक्षमुक्तम्, यत आह- पढमासीइ सहस्सा 1 बत्तीसा 2 अट्ठवीस 3 वीसा य 4 / अट्ठार 5 सोल 6 अट्ठ य 7 सहस्स लक्खोवरिं कुज्ज॥१॥ (बृहत्सं० २४१)त्ति अथवा षष्ठ्याः सहस्राधिकोऽपि मध्यभागो मध्यभागो विवक्षितः, एवमर्थसूचकत्वाद्बहुशब्दस्येति, तथा जम्बूद्वीपस्य जगत्याश्चत्वारि द्वाराणि विजयवेजयन्तजयन्तापराजिताभिधानानि चतुश्चतुर्योजनविष्कम्भाणि गव्यूतपृथुलद्वारशाखानि क्रमेण पूर्वादिषु दिक्षु भवन्ति, तेषां च द्वारस्य च द्वारस्य चान्योऽन्यमित्यर्थः, एस णं ति एतदेकोनाशीतिर्योजनसहस्राणि सातिरेकाणीत्येवंलक्षणमबाधयाव्यवधानेन व्यवधानरूपमित्यर्थोऽन्तरं प्रज्ञप्तम्, कथं? जम्बूद्वीपपरिधेः 316227 योजनानि क्रोशाः ३धनूंषि 128 अङ्गलानि 0०तमे स्था० (मु०)®न्तरमेव (मु०) कविंशतिसह० (मु०)10 षष्ठ्यामसावे. (मु०) प्रथमाऽशीतिः सहस्राणि द्वात्रिंशत् अष्टाविंशतिर्विंशतिश्च ।अष्टादशषोडशाष्टौ सहस्राणि लक्षस्योपरि कुर्यात्।।१00 कोऽपि मध्यभागो विव० (मु०)७ तेषां च द्वारस्य चान्यो० (प्र०)©शीतियोज(मु०)२०त्यर्थान्तरं (मु०)। // 153 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy