________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 151 // मेतस्य भगवत्यां न दृश्यते, इह तूक्तमिति मतान्तरमिदम्, आहेवच्चं ति आधिपत्यं- अधिपतिकर्म पोरेवच्चं ति पुरोवर्तित्वं सूत्रम् 78 अग्रगामित्वमित्यर्थः, भट्टित्तं ति भर्तृत्व- पोषकत्वं सामित्तं ति स्वामित्वं-स्वामिभावं महारायत्तं ति महाराजत्वं लोकपालत्व 78 समवायः | वैश्रमणादिः मित्यर्थः, आणाईसरसेणावच्चं ति आज्ञाप्रधानसेनानायकत्वं कारेमाणे त्ति अनुनायकैः सेवकानां कारयन् पालेमाणे त्ति आत्मनापि पालयन् विहरति आस्ते / अकम्पितः स्थविरो महावीरस्याष्टमो गणधरस्तस्य चाष्टसप्ततिवर्षाणि सर्वायुः, कथं?, गृहस्थपर्याये अष्टचत्वारिंशत् छद्मस्थपर्याये नव केवलिपर्याये चैकविंशतिरिति / उत्तरायणनियट्टेणं ति उत्तरायणाद्- उत्तरदिग्गमनानिवृत्तः, उत्तरायणनिवृत्तः, प्रारब्धदक्षिणायन इत्यर्थः सूरिए त्ति आदित्यः पढमाओ मंडलाओ त्ति दक्षिणदिशं गच्छतो रवेर्यत्प्रथमं तस्मात् न तु सर्वाभ्यन्तरसूर्यमार्गात् एकूणचत्तालीसइमे त्ति एकोनचत्वारिंशत्तमे मण्डले दक्षिणायनप्रथममण्डलापेक्षया सर्वाभ्यन्तरमण्डलापेक्षया तु चत्वारिंशे अठ्ठत्तरि ति अष्टसप्ततिं एगसट्ठिभाए त्ति मुहूर्तस्यैकषष्टिभागान् दिवसखेत्तस्स त्ति दिवसलक्षणस्य क्षेत्रस्य दिवसस्यैवेत्यर्थः, निव्वुड्हेत्त त्ति निर्वयं हापयित्वेत्यर्थः, तथारयणिखेत्तस्स त्ति रजन्या एव अभिनिव्वुड्वेत्त त्ति अभिनिर्वद्धय च वर्द्धयित्वेत्यर्थः, चारं चरइ त्ति भ्राम्यतीत्यर्थः, भावार्थोऽस्यैव चन्द्रप्रज्ञप्तिवाक्यैरुपदय॑ते-जम्बूद्वीपे / द्वीपे यदैतौ सूर्यो सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरतस्तदा नवनवतियोजनसहस्राणि षट्चत्वारिंशदधिकानि योजनशतान्यन्योऽन्यमन्तरं कृत्वा चरतः, एतच्च जम्बूद्वीपेऽशीत्युत्तरं योजनशतं प्रविश्याभ्यन्तरं मण्डलं भवति एतस्मिंश्च द्विगुणे जम्बूद्वीपप्रमाणादपकर्षिते यथोक्तमन्तरं भवतीति,तथा तत्र तयोश्चरतोरुत्कृष्टोऽष्टादशमुहूर्तो दिवसो भवति जघन्यिका च // 151 / द्वादशमुहूर्त्ता रात्रिर्भवति, ततोऽभ्यन्तरमण्डलान्निष्क्रम्य प्रथमेऽहोरात्रेऽभ्यन्तरानन्तरं मण्डलमुपसंक्रम्य यदा चारं चरतस्तदा (r) वर्षाण्यायुः (प्र०)। (r) दक्षिणां दिशं (मु०)। 0 निवुवेत्त'त्ति निवर्थ्य (मु०)। 0 अभिनिवुवेत्त'त्ति अभिनिव_ (मु०)। 7 वतिर्योज० (प्र०)।