________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 149 // सूत्रम् 76 76 समवायः विद्युत्कुमारादिः सूत्रम् 77 77 समवायः भरतकुमारत्वादिः 8 ॥सूत्रम् 75 // अथ पञ्चसप्ततिस्थानके किमपि लिख्यते सुविधेः नवमतीर्थकरस्य नामान्तरतः पुष्पदन्तस्येति, तथा शीतलस्य पञ्चसप्ततिः पूर्वसहस्राणि गृहवासे, कथं?, पञ्चविंशतिः कुमारत्वे पञ्चाशच्च राज्य इति, तथा शान्तिः पञ्चसप्ततिवर्षसहस्राणि गृहवासमध्युष्य प्रव्रजितः, कथं?, पञ्चविंशतिः कुमारत्वे पञ्चविंशतिः माण्डलिकत्वे पञ्चविंशतिश्चक्रवर्तित्वे इति // 5 // छावत्तरि विजुकुमारावाससयसहस्सा प०, एवं-दीवदिसाउदहीणं विजुकुमारिंदथणियमग्गीणं / छण्हंपि जुगलयाणं बावत्तरि / सयसहस्साई॥सूत्रम् 76 // अथ षट्सप्ततिस्थानके किञ्चित् लिख्यते तत्र विद्युत्कुमाराणां भवनावासलक्षाणि दक्षिणायां चत्वारिंशदुत्तरस्यां तु षट्त्रिंशदिति षट्सप्ततिरिति, एव मिति इदमेव भवनमानं शेषाणां द्वीपकुमारादिभवनपतिनिकायानाम्, इहार्थे गाथा- दीवे त्यादि युगलानामिति- दक्षिणोत्तरनिकायभेदेन युगलम्, निकाये निकाये भवतीति / / 76 // भरहेराया चाउरंतचक्कवट्टी सत्तहत्तरिपुव्वसयसहस्साइंकुमारवासमझे वसित्ता महारायाभिसेयं संपत्ते, अङ्गवंसाओणंसत्तहत्तरि रायाणो मुंडे जाव पव्वइया, गद्दतोयतुसियाणं देवाणं सत्तहत्तरं देवसहस्सपरिवारा प०, एगमेगेणं मुहुत्ते सत्तहत्तरं लवे लवग्गेणं प०॥सूत्रम् 77 // अथ सप्तसप्ततिस्थानके विवियते किश्चित्-तत्र भरतचक्रवर्ती ऋषभस्वामिनः षट्सु पूर्वलक्षेष्वतीतेषु जातस्त्र्यशीतितमे च तत्रातीते भगवति च प्रव्रजिते राजा संवृत्तः, ततश्च त्र्यशीत्याः षट्सु निष्कर्षितेषु सप्तसप्ततिस्तस्य कुमारवासो भवतीति, (c) लिख्यते किञ्चित् (मु०)। 0 दक्षिणस्यां (मु०)।