SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् | // 148 // सूत्रम् 74 74 समवायः अग्निभूत्यायुषादिः सूत्रम् 75 ७५समवायः सुविधिकेवल्यादिः अत्र चायं विभाग:- षट्चत्वारिंशद्वर्षाणि गृहस्थपर्यायः द्वादश छद्मस्थपर्यायः षोडश केवलिपर्याय इति, 'निसहाओ ण' मित्यादि अस्य भावार्थ:- किल निषधवर्षधरस्य विष्कम्भो योजनानांषोडश सहस्राणि अष्टौ शतानि द्विचत्वारिंशत् कलाद्वयं चेति, तस्य च मध्यभागे तिगिंच्छिमहाह्रदः सहस्रद्वयविष्कम्भश्चतुःसहस्रायामः तदेवं पर्वतविष्कम्भार्द्धस्य ह्रदविष्कम्भार्द्धन न्यूनतायां शीतोदामहानद्याः पर्वतस्योपरि चतुःसप्ततिशतान्येकविंशत्यधिकानि कला चैकेत्येवं प्रवाहो भवति वइरामइयाए जिब्भियाए त्ति वज्रमय्या जिबिकया प्रणालस्थमकरमुखजिह्वयाँ चतुर्योजनदीर्घया पञ्चाशद्योजनविष्कम्भया वइरतले कुण्डे त्ति निषधपर्वतस्याधोवर्तिनि वज्रभूमिके अशीत्यधिकचतुर्योजनशतायामविष्कम्भे दशयोजनावगाहे शीतोदादेवीभवनाध्यासितमस्तके तहीपेनालङ्कतमध्यभागे शीतोदाप्रपातहदे महय त्ति महाप्रमाणेन यत्पुनः दुहओ त्ति क्वचित् दृश्यते तदपपाठ इति मन्यते घडमुहपवत्तिएणं ति घटमुखेनेव-कलशवदनेनेव प्रवर्तितः- प्रेरितो घटमुखप्रवर्तितस्तेन मुक्तावलीनां-मुक्ताफलसरीणां सम्बन्धी हारस्तस्य यत्संस्थानं तेन संस्थितो यस्तेन प्रपात:- पर्वतात्प्रपतज्जलसमूहस्तेन महाशब्देन- महाध्वनिना प्रपतति, एवं शीतापि, नवरं नीलवद्वर्षधराद्दक्षिणाभिमुखी प्रपततीति, चउत्थवज्जे त्यादि तत्र प्रथमायां त्रिंशत् द्वितीयायां पञ्चविंशतिः तृतीयायां पञ्चदश पञ्चम्यां त्रीणि लक्षाणि षष्ठ्यां पञ्चोनं लक्षं सप्तम्यां पञ्चेत्येतानि मीलितानि चतुःसप्ततिर्भवन्तीति / / // 148 // सुविहिस्सणं पुप्फदंतस्स अरहओ पन्नत्तरि जिणसया होत्था, सीतलेणं अरहा पन्नत्तरि पुव्वसहस्साई अगारवासमझे वसित्ता मुंडे भवित्ता जाव पव्वइए, संतीणं अरहा पन्नत्तरिवाससहस्साई अगारवासमझे वसित्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ®सीतोदाया महा० (मु०)। 7 जिबिकया (मु०)।® भवति (मु०)।
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy