SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 146 // दशसहस्रमानांलवणजलधिशिखांबाह्यां-धातकीखण्डद्वीपाभिमुखीम्। महावीरो द्विसप्ततिवर्षाण्यायुः पालयित्वा सिद्धः, सूत्रम् 72 72 समवायः कथं?, त्रिंशद्गृहस्थभावे द्वादश सार्द्धानि पक्षश्च छद्मस्थभावे देशोनानि त्रिंशत्केवलित्वे इति द्विसप्ततिः / अयलभाय त्ति सुवर्णकुमारामहावीरस्य नवमो गणधरः तस्यायुर्द्विसप्ततिवर्षाणि, कथं?, षट्चत्वारिंशद्गृहस्थत्वे द्वादश छद्मस्थतायां चतुर्दश केवलित्वे वासादिः इति। पुष्करार्द्ध द्विसप्ततिश्चन्द्राः, तत्रैकस्यां पङ्क्तौ षट्त्रिंशदन्यस्यां च तावन्त एवेत्येवमिति, बावत्तरिं कलाओ त्ति कलनानि कला:विज्ञानानीत्यर्थः, ताश्च कलनीयभेदाद् द्विसप्ततिर्भवन्ति, तत्र लेखनं लेखोऽक्षरविन्यासः, तद्विषया कला- विज्ञानं लेख एवोच्यते एवं सर्वत्र, स च लेखो द्विधा-लिपिविषयभेदात्, तत्र लिपिरष्टादशस्थानकोक्ता अथवा लाटादिदेशभेदतस्तथाविधविचित्रोपाधिभेदतो वाऽनेकविधेति, तथाहि- पत्रवल्ककाष्ठदन्तलोहताम्ररजतादयोअक्षराणामाधारास्तथा लेखनोत्कीर्णनस्यूतव्यूतच्छिन्नभिन्नदग्धसंक्रान्तितोऽक्षराणि भवन्तीति, विषयापेक्षयाप्यनेकधा-स्वामिभृत्यपितृपुत्रगुरुशिष्यभार्यापतिशत्रुमित्रादीनां लेखविषयाणामनेकत्वात्तथाविधप्रयोजनभेदाच्च, अक्षरदोषाश्चैते-अतिकायॆमतिस्थौल्यं वैषम्यं पङ्क्तिवक्रता / अतुल्यानां च सादृश्यमभागोऽवयवेषु च ॥१॥तथा गणितं- सङ्ख्यानं सङ्कलिताद्यनेकभेदं पाटीप्रसिद्ध 2 रूपं शलासुवर्णमणिवस्त्रचित्रादिषुरूपनिर्माणं 3 नाट्यकला भरतमार्गच्छलिकंलास्यं विधानमित्यादिभेदादष्टधा नाट्यग्रहणात् नृत्तकलापि गृहीता, साच अभिनयिका अङ्गहारिका व्यायामिका चेति त्रिभेदा, स्वरूपं चात्र भरतशास्त्रादवसेयं 4 तथा गीतं कला, सा च निबन्धमार्गछलिकमार्गभिन्नमार्गभेदात् त्रिधा, तत्र सप्त स्वरास्त्रयो ग्रामा, मूर्च्छना एकविंशतिः। (r) 'अयलभाय'त्ति अचलो महावीरस्य (मु०)। 0 न्यस्यां पङ्क्तौ च (मु०)। (c) नाट्यं कला....लास्यविधान० (प्र०)। 0 नृत्यकला० (मु०)। ON गीतं- गीतकला (प्र०)। // 146 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy