________________ श्रीसमवायाचं श्रीअभय० वृत्तियुतम् | // 144 // सूत्रम् 71 ७१समवायः चतुर्थचन्द्रवर्षादिः सूत्रम् 72 72 समवायः सुवर्णकुमारावासादिः संवत्सरत्रये दिनानां सहस्रं द्विनवतिः षट् द्विषष्टिभागा भवन्ति 10926, तथा आदित्यसंवत्सरे दिनानां शतत्रयं षट्षष्टिश्च भवन्ति, तत्रितये च सहस्रमष्टनवत्यधिकं भवति, इह च किल चन्द्रयुगमादित्ययुगंचाषाढ्यामेकं पूर्यतेऽपरञ्च श्रावणकृष्णप्रतिपदि आरभ्यते, एवं चादित्ययुगसंवत्सरत्रयापेक्षया चन्द्रयुगसंवत्सरत्रयं पञ्चभिर्दिनैः षट्पञ्चाशता च दिनद्विषष्टिभागैरून भवतीतिकृत्वा आदित्ययुगसंवत्सरत्रयं श्रावणकृष्णपक्षस्य चन्द्रदिनषट्के साधिके पूर्यते चन्द्रयुगसंवत्सरत्रयं त्वाषाढ्याम्, ततश्च श्रावणकृष्णपक्षसप्तमदिनादारभ्य दक्षिणायनेनादित्यश्चरन् चन्द्रयुगचतुर्थसंवत्सरस्य चतुर्थमासान्तभूतायामष्टादशोत्तरशततमदिनभूतायां कार्तिक्यां द्वादशोत्तरशततमे स्वकीयमण्डले चरति, ततश्चान्यान्येकसप्ततिर्मण्डलानि तावत्स्वेव दिनेषु मार्गशीर्षादीनां चतुर्णां हेमन्तमासानां सम्बन्धिषु चरति, ततो द्विसप्ततितमे दिने माघमासे बहुलपक्षत्रयोदशीलक्षणे सूर्य आवृत्तिं करोति, दक्षिणायनान्निवृत्योत्तरायणेन चरतीत्यर्थः, उक्तं च ज्योतिष्करण्डके पञ्चसु युगसंवत्सरेणूत्तरायणतिथयः क्रमेणैवं यदुत-बहुलस्स सत्तमीए 1 सूरो सुद्धस्स तो चउत्थीए 2 / बहुलस्स य पाडिवए 3 बहुलस्स य तेरसीदिवसे 4 ॥१॥सुद्धस्स य दसमीए 5 पवत्तए पंचमी उ आउट्टी। एआ आउट्टीओ सव्वाओ माघमासंमि॥२॥(ज्योतिष्क० २५०-५१)त्ति, दक्षिणायनदिनानि चैवं- पढमा बहुलपडिवए 1 बीया बहुलस्स तेरसी दिवसे / सुद्धस्स य दसमीए 3 बहुलस्स य सत्तमीए 4 उ॥१॥सुद्धस्स चउत्थीए। पवत्तए पंचमी उ आउट्टी। एया आउट्टीओ सव्वाओ सावणे मासे॥२॥ (ज्योतिष्क० २४७-४८)त्ति / वीरियपुव्वस्स त्ति तृतीयपूर्वस्य पाहुड त्ति प्राभृतमधिकारविशेषः।अजिए इत्यादि,तस्य हि अष्टादश पूर्वलक्षाणि कुमारत्वं त्रिपञ्चाशच्चैकपूर्वाङ्गाधिका राज्यमित्येकसप्ततिरिह च पूर्वाङ्गमधिकमल्पत्वान्न विवक्षितमिति 5, सगरो द्वितीयश्चक्रवर्ती अजितस्वामिकालीनः॥७१॥ __ बावत्तरि सुवन्नकुमारावाससयसहस्सा प०, लवणस्स समुद्दस्स बावत्तरिं नागसाहस्सीओ बाहिरियं वेलं धारंति, समणे भगवं