________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् ||143 // सूत्रम् 71 71 समवायः चतुर्थचन्द्रवर्षादिः पमकोटीकोट्यः, अनुभवरूपां त्वधिकृत्य सप्तवर्षसहस्रोनेति, तत्र अबाह त्ति किमुक्तं भवति?- बन्धावलिकाया आरभ्य यावत्सप्तवर्षसहस्राणि तावत् तत्कर्म न बाधते, नोदयं यातीत्यर्थः,ततोऽनन्तरसमये कर्मदलिकं पूर्वनिषिक्तं उदये प्रवेशयति, निषेको नाम ज्ञानावरणादिकर्मदलिकस्यानुभवनार्थं रचना, तच्च प्रथमसमये बहुकं निषिञ्चति द्वितीयसमये विशेषहीनं तृतीयसमये विशेषहीनमेवं यावदुत्कृष्टस्थितिकर्मदलिकं तावद्विशेषहीनं निषिञ्चति, तथा चोक्तं- मोत्तूण सगमबाहं पढमाए ठिईए बहुतरं दव्व / सेसे विसेसहीणं जावुक्कोसन्ति सव्वासिं // 1 // (कर्मप्र० ८३)ति बाधृ लोडने(पा०धा०५) बाधत इति बाधा कर्मण उदय इत्यर्थः, न बाधा अबाधा, अन्तरं कर्मोदयस्येत्यर्थः, तया ऊनिका अबाधोनिका कर्मस्थितिः कर्मनिषको भवतीत्येवमेके प्राहुः, अन्ये पुनराहुः- अबाधाकालेन-वर्षसहस्रसप्तकलक्षणेनोना कर्मस्थिति:-सप्तसहस्राधिकसप्ततिसागरोपमकोटाकोटीलक्षणा, कर्मनिषेको भवति, स च कियान्?, उच्यते-'सत्तरिं सागरोवमकोडाकोडीओ'त्ति // 70 // ___ चउत्थस्स णं चंदसंवच्छरस्स हेमंताणं एक्कसत्तरीए राइंदिएहिं वीइक्वंतेहिं सव्वबाहिराओ मंडलाओ सूरिए आउटिं करेइ, वीरियप्पवायस्सणं पुव्वस्स एक्कसत्तरि पाहुडा प०, अजितेणं अरहा एक्कसत्तरं पुव्वसयसहस्साई अगारमझे वसित्ता मुंडे भवित्ता जाव पव्वइए, एवं सगरोवि राया चाउरंतचक्ववट्टी एक्कसत्तरं पुव्व जाव पव्वइएत्ति // सूत्रम् 71 // अथैकसप्ततिस्थानके किञ्चित् लिख्यते- चउत्थस्से त्यादि, इह भावार्थोऽयं- युगे हि पञ्च संवत्सरा भवन्ति, तत्राद्यौ चन्द्रसंवत्सरौ तृतीयोऽभिवर्द्धितसंवत्सरश्चतुर्थश्चन्द्रसंवत्सर एव, तत्र च एकोनत्रिंशता दिनानां द्वात्रिंशता च द्विषष्टिभागैर्दिनस्य चन्द्रमासो भवति, अयंच द्वादशगुणश्चन्द्रसंवत्सरोभवति,त्रयोदशगुणश्चायमेवाभिवर्द्धितो भवति, ततश्चन्द्रचन्द्राभिवर्द्धितलक्षणे (r) मुक्त्वा स्वकीयामबाधां प्रथमायां स्थितौ बहुतरं द्रव्यम् / शेषायां विशेषहीनं यावदुत्कृष्टां सर्वासाम् / / 1 / / 0 लिख्यते किञ्चित् (प्र०)। // 14 //