________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 142 // सूत्रम् 70 70 समवायः वर्षावासगतादिः भवन्ति, पञ्चचत्वारिंशतो जम्बूद्वीपसम्बन्धिनां द्वादशानामन्तरसम्बन्धिनां द्वादशानामेव द्वीपविष्कम्भसम्बन्धिनां च मीलनादिति / मोहनीयवर्जानां कर्मणामेकोनसप्ततिरुत्तरप्रकृतयो भवन्तीति, कथं?, ज्ञानावरणस्य पञ्च दर्शनावरणस्य नव वेदनीयस्य द्वे आयुषश्चतम्रो नाम्नो द्विचत्वारिंशद्रोत्रस्य द्वे अन्तरायस्य पञ्चेति // 69 // समणे भगवं महावीरे वासाणं सवीसइराए मासे वइक्वंते सत्तरिएहिं राइदिएहिं सेसेहिं वासावासं पनोसवेइ, पासे णं अरहा पुरिसादाणीए सत्तरं वासाइंबहुपडिपुन्नाइंसामन्नपरियागंपाउणित्ता सिद्ध बुद्धे जावप्पहीणे, वासुपुजेणं अरहा सत्तरं धणूई उद्धं उच्चत्तेणं होत्था, मोहणिज्जस्सणं कम्मस्स सत्तरं सागरोवमकोडाकोडीओ अबाहूणिया कम्मट्टिई कम्मनिसेगे प०, माहिंदस्सणं देविंदस्स देवरन्नो सत्तरं सामाणियसाहस्सीओप०॥सूत्रम् 70 // अथ सप्ततिस्थानके किमपि लिख्यते-समणे इत्यादि, वर्षाणां- चतुर्मासप्रमाणस्य वर्षाकालस्य सविंशतिरात्रे-विंशतिदिवसाधिके मासे व्यतिक्रान्ते पञ्चाशति दिनेष्वतीतेष्वित्यर्थः सप्तत्यां च रात्रिंदिवेषु शेषेषु भाद्रपदशुक्लपञ्चम्यामित्यर्थः, वर्षास्वावासोवर्षावासः- वर्षावस्थानं पज्जोसवेइ त्ति परिवसति सर्वथा वासं करोति, पञ्चाशति प्राक्तनेषु दिवसेषु तथाविधव-2 सत्यभावादिकारणे स्थानान्तरमप्याश्रयति भाद्रपदशुक्लपञ्चम्यां तु वृक्षमूलादावपि निवसतीति हृदयमिति, पुरिसादाणीए त्ति पुरुषाणामादानीय- उपादेयः पुरुषादानीयः अबाहूणिया कम्मट्ठिई कम्मणिसेगे पण्णत्ते त्ति इह किलात्मा अविशिष्टमेव कर्मपुद्गलोपादानं कृत्वा उत्तरकालं ज्ञानावरणीयादिकर्मणां स्वंस्वमबाधाकालं मुक्त्वा ज्ञानावरणीयादिप्रकृतिविभागतया अनाभोगिकेन वीर्येणोदयसहितं तद्दलिकं निषिञ्चति, उदययोग्यं रचयतीत्यर्थः, अतो द्विविधा स्थिति:- कर्मत्वापादनमात्ररूपा अनुभवरूपाच, यतः स्थिति:-अवस्थानं तेन भावेनाप्रच्यवनम्, तत्र कर्मत्वापादनरूपांतामधिकृत्य सप्ततिःसागरो // 142 //