________________ सूत्रम् 63 ६३समवायः श्रीसमवाया श्रीअभय० वृत्तियुतम् // 135 // ऋषभराज्यादिः विमानानामावलिका भवन्ति, तदेवं सौधर्मेशानयोः कल्पयोः प्रथमे प्रस्तटे- सर्वाधस्तन इत्यर्थः पढमावलियाए त्ति प्रथमा उत्तरोत्तरावलिकापेक्षया आद्याश्चतस्र आवलिका यस्मिन्स प्रथमावलिकाकस्तत्र, अथवा प्रथमात् मूलभूताद्विमानेन्द्रकादारभ्य याऽसावावलिका-विमानानुपूर्वी तया अथवोत्तरोत्तरावलिकापेक्षया एकैकस्यां दिशि या प्रथमा- आद्यावलिका तस्यां पढमावलिय त्ति पाठान्तरे तु उत्तरोत्तरावलिकापेक्षया या एकैकस्यां दिशि प्रथमावलिका सा द्विषष्टिर्द्विषष्टिर्विमानानि प्रज्ञप्तेति, एगमेगाए त्ति उडुविमानाभिधानदेवेन्द्रकापेक्षया एकैकस्यां पूर्वादिकायां दिशि द्विषष्टिर्द्विषष्टिर्विमानानि प्रज्ञप्तानि, द्वितीयादिषु पुनः प्रस्तटेषु एकैकहान्या विमानानि भवन्ति यावद्विषष्टितमेऽनुत्तरसुरप्रस्तटे सर्वार्थसिद्धदेवेन्द्रकस्य पार्श्वत: एकैकमेव भवतीति, तथा सव्वेत्ति सर्वे वैमानिकानांदेवविशेषाणांसम्बधिनो द्विषष्टिर्विमानप्रस्तटा-विमानप्रस्तराः प्रस्तटाग्रेणप्रस्तटपरिमाणेन प्रज्ञप्ता इति // 62 // ___उसभेणं अरहा कोसलिए तेसडिंपुव्वसयसहस्साइंमहारायमाझे वसित्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वइए, हरिवासरम्मयवासेसुमणुस्सा तेवट्ठिए राइदिएहि संपत्तजोव्वणा भवंति, निसढेणं पव्वए तेवढिसूरोदयाप०, एवं नीलवंतेवि।सूत्रम् 63 // अथ त्रिषष्टिस्थानकम्, तत्र संपत्तजोव्वण त्ति मातापितृपरिपालनानपेक्षा इत्यर्थः, निसहेण मित्यादि, किल सूर्यमण्डलानां चतुरशीत्यधिकशतसंख्यानांमध्यात् जम्बूद्वीपस्य पर्यन्तिमे अशीत्युत्तरे योजनशते पञ्चषष्टिर्भवति, तत्र च निषधवर्षधरपर्वतस्योपरि नीलवद्वर्षधरपर्वतस्य चोपरि त्रिषष्टिः सूर्योदयाः- सूर्योदयस्थानानि सूर्यमण्डलानीत्यर्थः, तदन्ये तु द्वे जगत्या उपरि, शेषाणि तु लवणे त्रिषु त्रिंशदधिकेषु योजनशतेषु भवन्तीति भावार्थः / / 63 // 0 विमानप्रमाणेन (मु०), सा द्विषष्टिविमानानि (प्र०)। 0 न्द्रकः पार्श्वे तदेकैकमेव (मु०)।