________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 134 // सूत्रम् 62 62 समवायः युगर्तुमासादिः तत्रैवोक्तं- सोलसभागे काऊण उडुवई हायएत्थ पन्नरसं / तत्तियमेत्ते भागे पुणोवि परिवड्डई जोण्हं // 1 // (ज्योतिष्क० १११)ति। तदेवं भणितद्वयानुसारेणानुमीयते यथा चन्द्रमण्डलस्य एकत्रिंशदुत्तरनवशतभागविकल्पितस्य एकांशोऽवस्थित एवास्ते, शेषाः प्रतिदिवसं द्विषष्टिं द्विषष्टिं कृत्वा वर्धन्ते, ततः पञ्चदशे चन्द्रदिने सर्वे समुदिता भवन्ति, पुनस्तथैव हीयन्ते पञ्चदशे दिने / एकावशेषा भवन्तीति वचनद्वयसामर्थ्यलभ्यं व्याख्यानमेतत् जीवाभिगमे तु बावठिं 2 गाहा तथा पन्नरसतिभागेण गाहा, एते गाथे इत्थं व्याख्याते- बावडिं 2 इत्यत्र द्विषष्टि२ गानां दिवसे 2 च प्रत्यहमित्यर्थः,शुक्लपक्षस्य सम्बन्धिनि यत् परिवर्द्धते चन्द्रश्चतुरः साधिकान् द्विषष्टिभागान् क्षपयति तदेव कालेनैतदेवाह- पन्नरस इत्यादिना, चन्द्रविमानं द्विषष्टिभागान् क्रियते। ततः पञ्चदशभिर्भागोऽपह्रियते ततश्चत्वारोभागाः समधिका द्विषष्टिभागानां पञ्चदशभागेन लभ्यन्ते, अत उच्यते- पञ्चदश-8 भागेन चोक्तलक्षणेन चन्द्रमधिकृत्य पञ्चदशैव दिवसांस्तद्राहुविमानंचरति, एवमपक्रामतीत्यपि भावनीयमिति, अत्रास्माभिर्यथादृष्टे लिखिते उपनीते बहुश्रुतैर्निर्णयः कार्य इति, सोहम्मी त्यादि, तत्र सौधर्मेशानयोस्त्रयोदश विमानप्रस्तटा भवन्ति, सनत्कुमारमाहेन्द्रयोदश ब्रह्मलोके षट् लान्तके पश्च शुक्रे चत्वार एवं सहस्रारे आनतप्राणतयोश्चत्वार एवमारणाच्युतयोः ग्रैवेयकेष्वधस्तनमध्यमोपरिमेषु त्रयः 2 अनुत्तरेष्वेक इति द्विषष्टिस्ते भवन्ति, एतेषां च मध्यभागे प्रत्येकमुडुविमानादिकाः सर्वार्थसिद्धविमानान्ता वृत्तविमानरूपा द्विषष्टिरेव विमानेन्द्रका भवन्ति, तत्पार्श्वतश्चपूर्वादिषु दिक्षुत्र्यसूचतुरस्रवृत्तविमानक्रमेण O षोडशभागान् कृत्वोडुपतिहीयतेऽथ पञ्चदश। तावन्मात्रान् भागान् पुनरपि परिवर्धते ज्योत्स्ना // 1 // 0 कार्य इति योकमंशं दर्शयश्चन्द्रश्चरति एकमेव चांशं राहुश्वरति तदा प्रत्यहं द्वावंशावाच्छादनीयौ जायेते पञ्चदशभिश्च दिनैराच्छादितोऽप्यंशद्वयमवतिष्ठते तस्याप्यर्धमाच्छादनीयमेकैकेनेति भाग एक आच्छाद्य इति द्विषष्टिभागीकरणं। // 134 //