________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 129 // सूत्रम् 56-57 56-57 समवायः जम्बूनक्षत्रादिः गणिपिटकादिः अथ षट्पञ्चाशत्स्थानके लिख्यते, जम्बुद्दीवे इत्यादि, तत्र चन्द्रद्वयस्य प्रत्येकमष्टाविंशतेर्भावात् षट्पञ्चाशन्नक्षत्राणि भवन्ति, विमलस्येह षट्पञ्चाशद्गणा गणधराश्चोक्ताः आवश्यके तु सप्तपञ्चाशदुच्यते तदिदं मतान्तरमिति // 56 // तिण्हं गणिपिडगाणं आयारचूलियावज्जाण सत्तावन्नं अज्झयणा प० तं- आयारे सूयगडे ठाणे, गोथूभस्सणं आवासपव्वयस्स पुरच्छिमिल्लाओ चरमंताओ वलयामुहस्स महापायालस्स बहुमज्झदेसभाए एस णं सत्तावनंजोयणसहस्साई अबाहाए अंतरेप०, एवंदगभासस्स केउयस्स य संखस्स य जूयस्स य दयसीमस्स ईसरस्स य, मल्लिस्सणं अरहओसत्तावन्नं मणपज्जवनाणिसया होत्था, महाहिमवंतरूप्पीणवासहरपव्वयाणंजीवाणंधणुपिटुंसत्तावन्नं २जोयणसहस्साइंदोन्निय तेणउएजोयणसए दस य एगूणवीसइभाए जोयणस्स परिक्खेवेणं प० ।सूत्रम् 57 // अथ सप्तपञ्चाशत्स्थानके किमपि लिख्यते, गणिपिडगाणं ति गणिनः-आचार्यस्य पिटकानीव पिटकानि सर्वस्वभाजनानीति गणिपिटकानि तेषां आचारस्य श्रुतस्कन्धद्वयरूपस्य प्रथमाङ्गस्य चूलिका- सर्वान्तिममध्ययनं विमुक्त्यभिधानमाचारचूलिका तद्वर्जानां तत्राचारे प्रथमश्रुतस्कन्धे नवाध्ययनानि द्वितीये षोडश, निशीथाध्ययनस्य प्रस्थानान्तरत्वेनेहानाश्रयणात्, षोडशानांमध्ये एकस्याचारचूलिकेति परिहृतत्वात् शेषाणि पञ्चदश, सूत्रकृते द्वितीयाने प्रथमश्रुतस्कन्धे षोडश द्वितीयेसप्त स्थानाने दशेत्येवं सप्तपञ्चाशदिति, गोथुभेत्यादौ भावार्थोऽयं-द्विचत्वारिंशत्सहस्राणि वेदिकागोस्तुभपर्वतयोरन्तरं सहस्रं गोस्तुभस्य विष्कम्भः द्विपञ्चाशद्गोस्तुभवडवामुखयोरन्तरं दशसहस्रमानत्वाद्वडवामुखविष्कम्भस्य तदर्द्ध पञ्चेति ततो द्विपञ्चाशतः पञ्चानां च मीलने सप्तपञ्चाशदिति, जीवाणं धणुपट्ठ त्ति मण्डलखण्डाकारं क्षेत्रम्, इह सूत्रे संवादगाथार्द्ध 0नीति गम्यते गणपि० (मु०)। 0 धणुपिट्ठ'न्ति (मु०)। // 129 //