SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 119 // सूत्रम् 43 ४३समवायः कर्मविपाकादिः तथा यतोऽनुष्णोद्योतवच्छरीरो भवति तदुद्योतनाम, तथा यतः शुभेतरगमनयुक्तो भवति तद्विहायोगतिनाम, त्रसनामादीन्यष्टौ प्रतीतार्थानि, तथा यतः स्थिराणांदन्ताद्यवयवानां निष्पत्तिर्भवति तत्स्थिरनाम, यतश्चभ्रूजिह्वादीनामस्थिराणां निष्पत्तिर्भवति तदस्थिरनाम, तथा शिरःप्रभृतीनां शुभानांतच्छुभनाम, पादादीनामशुभानामशुभनाम इति, शेषाणि प्रतीतानि, नवरं यदुदयाजातौ जातौ जीवदेहेषु स्त्र्यादिलिङ्गाकारनियमो भवति तत्सूत्रधारसमानं निर्माणनामेति, पञ्चमछट्ठीओ समाओ त्ति दुष्षमा एकान्तदुष्षमा चेत्यर्थः पढमबीयाउ त्ति एकान्तदुष्षमा दुष्षमा चेति // 42 // __ तेयालीसं कम्मविवागज्झयणाप०, पढमचउत्थपंचमासु पुढवीसुतेयालीसं निरयावाससयसहस्सा प०, जंबुद्दीवस्स णं दीवस्स पुरच्छिमिल्लाओ चरमंताओ गोथूभस्सणं आवासपव्वयस्स पुरच्छिमिल्ले चरमंते एस णं तेयालीसंजोयणसहस्साई अबाहाए अंतरे प०, एवं चउद्दिसिंपिदगभागेसंखे दयसीमे, महालियाएणं विमाणपविभत्तीए तइये वग्गे तेयालीसं उद्देसणकालाप०॥ सूत्रम् 43 // त्रिचत्वारिंशत्स्थानकेऽपि किञ्चिल्लिख्यते, कम्मविवागज्झयण त्ति कर्मण:- पुण्यपापात्मकस्य विपाक:-फलं तत्प्रतिपादकान्यध्ययनानि कर्मविपाकाध्ययनानि, एतानि च एकादशाङ्गद्वितीयाङ्गयोः संभाव्यन्त इति जंबुद्दीवस्स ण मित्यादि, जम्बूद्वीपपौरस्त्यान्तागोस्तुभपर्वतो द्विचत्वारिंशद्योजनानां सहस्राणि तद्विष्कम्भश्च सहस्रं तदधिकाया द्वाविंशतेरल्पत्वेनाविवक्षणादेवं च त्रिचत्वारिंशत्सहस्राणि भवन्तीति, एवं चउद्दिसिपि त्ति उक्तदिगन्तर्भावेन चतस्रो दिश उक्ता अन्यथा एवं तिदिसिंपित्ति वाच्यं स्यात्, तत्र चैवमभिलाप:-जंबुद्दीवस्स णं दीवस्स दाहिणिल्लाओ चरिमंताओ दओभासस्सणं आवासपव्वयस्स दाहिणिल्ले चरिमंते एस णं तेयालीसं जोयणसहस्साई अबाहाए अंतरे पन्नत्ते एवमन्यत्सूत्रद्वयम्, नवरं पश्चिमायां शङ्ख आवासपर्वत ©एवं (प्र०)।
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy