________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 118 // सूत्रम् 42 ४२समवायः वीरश्रामण्यादिः देशोनानि त्रिंशद्वर्षाणीति पर्युषणाकल्पे द्विचत्वारिंशदेव वर्षाणि महावीरपर्यायोऽभिहितः, इह तु साधिक उक्त :, तंत्र पर्युषणाकल्पे यदल्पमधिकं तन्न विवक्षितमिति सम्भाव्यत इति, जावत्ति करणात् ‘बुद्धे मुत्ते अंतकडे परिनिव्वुडे'त्ति दृश्यम्। जम्बूद्दीवस्से त्यादि पुरथिमिल्लचरिमंताओ त्ति जगतीबाह्यपरिधेरपसृत्य गोस्तुभस्यावासपर्वतस्य वेलंधरनागराजसम्बन्धिनः पाश्चात्यचरमान्तः- चरमविभागो यावताऽन्तरेण भवति एस णं ति एतदन्तरं द्विचत्वारिंशद्योजनसहस्राणि प्रज्ञप्तम्, अन्तरशब्देन विशेषोऽप्यभिधीयते इत्यत आह- अबाहाए त्ति व्यवधानापेक्षया यदन्तरं तदित्यर्थः / कालोए ण न्ति धातकीखण्डपरिवेष्टके कालोदाभिधाने समुद्रे / गइनामेत्यादि, गतिनाम यदुदयान्नारकादित्वेन जीवो व्यपदिश्यते, जातिनाम यदुदयादेकेन्द्रियादिभवति, शरीरनाम यदुदयादौदारिकादिशरीरं करोति, यदुदयादङ्गानां-शिरःप्रभृतीनां उपाङ्गानांच- अङ्गल्यादीनां विभागो भवति तच्छरीराङ्गोपाङ्गनाम, तथा औदारिकादिशरीरपुद्गलाना पूर्वबद्धानां बध्यमानानां च सम्बन्धकारणं शरीरबन्धननाम, तथा औदारिकादिशरीरपुद्गलानां गृहीतानां यदुदयाच्छरीररचना भवति तच्छरीरसङ्घातनाम, तथास्थयां यतस्तथाविधशक्तिनिमित्तभूतो रचनाविशेषोभवति तत्संहनननाम, संस्थानं समचतुरस्रादिलक्षणं यतोभवति तत्संस्थाननाम, तथा यदुदयाद्वर्णादिविशेषवन्ति शरीराणि भवन्ति तद्वर्णादिनाम, तथा यदुदयादगुरुलघु स्वं स्वं शरीर जीवानां भवति तदगुरुलघुनाम, तथा यतोऽङ्गावयवः प्रतिजिह्विकादिरात्मोपघातको जायते तदुपघातनाम, तथा यतोऽङ्गावयव एव विषात्मको दंष्ट्रात्वगादिः परेषामुपघातको भवति तत्पराघातनाम,तथा यदुदयादन्तरालगतौ जीवो याति तदानुपूर्वीनाम, तथा यदुदयादुछासनिःश्वासनिष्पत्तिर्भवति तदुच्छ्रासनाम, तथा यदुदयाजीवस्तापवच्छरीरो भवति तदातपनाम यथाऽऽदित्यबिम्बपृथिवीकायिकानाम्, तत्र च पर्यु (प्र०)10 पुरिच्छिमिल्लाओ चरि० (मु०)। 0 लघुत्वं स्वशरीरस्य (मु०)। // 118 //