________________ // 112 // श्रीसमवायाङ्ग पदानांवाक्यानांवासापेक्षता 17 अभिजातत्वं-वक्तुःप्रतिपाद्यस्य वा भूमिकानुसारिता 18 अतिस्निग्धमधुरत्वं-घृतगुडादिवत् श्रीअभय० सूत्रम् 35 सुखकारित्वं 19 अपरमर्मवेधित्वं-परमर्मानुद्धट्टनस्वरूपत्वं 20 अर्थधर्माभ्यासानपेतत्वं-अर्थधर्मप्रतिबद्धत्वं 21 उदारत्वंवृत्तियुतम् 35 समवायः अभिधेयार्थस्यातुच्छत्वं गुम्फगुणविशेषोवा 22 परनिन्दात्मोत्कर्षविप्रयुक्तत्वमिति प्रतीतमेव 23 उपगतश्लाघत्वं-उक्तगुण वचन | गुणादिः योगात्प्राप्तश्लाघता 24 अनपनीतत्वं-कारककालवचनलिङ्गादिव्यत्ययरूपवचनदोषापेतता 25 उत्पादिताच्छिन्नकौतूहलत्वंस्वविषये श्रोतृणांजनितमविच्छिन्नं कौतुकं येन तत्तथा तद्भावस्तत्त्वं 26 अद्भुतत्वं- अनतिविलम्बितत्वं च प्रतीतं 27-28 विभ्रमविक्षेपकिलिकिञ्चितादिवियुक्तत्व-विभ्रमो-वक्तृमनसोभ्रान्तता विक्षेप:- तस्यैवाभिधेयार्थं प्रत्यनासक्तता किलिकिञ्चितं- रोषभयाभिलाषादिभावानां युगपदसकृत्करणमादिशब्दान्मनोदोषान्तरपरिग्रहस्तैर्विमुक्तं यत्तत्तथा तद्भावस्तत्त्वं 29 अनेकजातिसंश्रयाद्विचित्रत्वम्, इह जातयोवर्णनीयवस्तुरूपवर्णनानि 30 आहितविशेषत्वं वचनान्तरापेक्षया ढौकितविशेषता 31 साकारत्वं-विच्छिन्नवर्णपदवाक्यत्वेनाकारप्राप्तत्वं 32 सत्त्वपरिगृहीतत्वं-साहसोपेतता 33 अपरिखेदितत्वं- अनायाससम्भवः 34 अव्युच्छेदित्वं-विवक्षितार्थसम्यक्सिद्धिं यावदनवच्छिन्नवचनप्रमेयतेति 35 / तथा दत्तः-सप्तमवासुदेवः नन्दनःसप्तमबलदेवः, एतयोश्चावश्यकाभिप्रायेण षड्विंशतिर्धनुषामुच्चत्वं भवति, सुबोधं च तत्, यतोऽरनाथमल्लिस्वामिनोरन्तरे तावभिहितौ, यतोऽवाचि-अरमल्लिअंतरे दोण्णि केसवा पुरिसपुंडरीय दत्त त्ति, अरनाथमल्लिनाथयोश्च क्रमेण त्रिंशत्पञ्चविंशतिश्च धनुषामुच्चत्वम्,एतदन्तरालवर्त्तिनोश्च वासुदेवयोः षष्ठसप्तमयोरेकोनत्रिंशत्षड्विंशतिश्च धनुषां युज्यत इति, इहोक्ता तु पञ्चत्रिंशत् / / स्यात् यदि दत्तनन्दनौ कुन्थुनाथतीर्थकाले भवतो, न चैतदेवं जिनान्तरेष्वधीयत इति दुरवबोधमिदमिति / सौधर्मे कल्पे O अमृतगुडा० (मु०)। // 11