________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् | // 111 // सूत्रम् 35 35 समवायः वचनगुणादिः दोसु पुढवीसुपणतीसं निरयावाससयसहस्सा प०॥सूत्रम् 35 // पञ्चत्रिंशत्स्थानकं सुगमम्, नवरं सत्यवचनातिशया आगमे न दृष्टाः, एते तु ग्रन्थान्तरदृष्टाः सम्भाविताः, वचनं हि गुणवद्वक्तव्यम्, तद्यथा-संस्कारवत् 1 उदात्तं 2 उपचारोपेतं 3 गम्भीरशब्दं 4 अनुनादि 5 दक्षिणं 6 उपनीतरागं 7 महार्थं 8 अव्याहतपौर्वापर्यं 9 शिष्टं 10 असन्दिग्धं 11 अपहृतान्योत्तरं 12 हृदयग्राहि 13 देशकालाव्यतीतं 14 तत्त्वानुरूपं 15 अप्रकीर्णप्रसृतं 16 अन्योऽन्यप्रगृहीतं 17 अभिजातं 18 अतिस्निग्धमधुरं 19 अपरमर्मविद्धं 20 अर्थधर्माभ्यासानपेतं 21 उदारं 22 परनिन्दात्मोत्कर्षविप्रयुक्तं 23 उपगतश्लाघ 24 अनपनीतं 25 उत्पादिताच्छिन्नकौतूहलं 26 अद्भुतं 27 अनतिविलम्बितं 28 विभ्रमविक्षेपकिलिकिञ्चितादिवियुक्तं 29 अनेकजातिसंश्रयाद्विचित्रं 30 आहितविशेषं 31 साकारं 32 सत्त्वपरिग्रहं 33 अपरिखेदितं 34 अव्युच्छेद 35 चेति वचनं महानुभावैर्वक्तव्यमिति, तत्र संस्कारवत्त्वं-संस्कृतादिलक्षणयुक्तत्वं 1 उदात्तत्वं- उच्चैर्वृत्तिता 2 उपचारोपेतत्वं- अग्राम्यता 3 गम्भीरशब्दत्वं मेघस्येव 4 अनुनादित्वं-प्रतिरवोपेतता 5 दक्षिणत्वं-सरलत्वं 6 उपनीतरागत्वं- मालवे(वके)शिकादिग्रामरागयुक्तता 7 ए ते सप्त शब्दापेक्षा अतिशयाः, अन्ये त्वर्थाश्रयाः, तत्र महार्थत्वं-बृहदभिधेयता 8 अव्याहतपौर्वापर्यत्वं-पूर्वापरवाक्याविरोधः९शिष्टत्वं-अभिमतसिद्धान्तोक्तार्थता वक्तुः शिष्टतासूचकत्वं वा 10 असन्दिग्धत्वं- असंशयकारिता 11 अपहृतान्योत्तरत्वं-परदूषणाविषयता 12 हृदयग्राहित्वंश्रोतृमनोहरता 13 देशकालाव्यतीतत्वं- प्रस्तावोचितता 14 तत्त्वानुरूपत्वं-विवक्षितवस्तुस्वरूपानुसारिता 15 अप्रकीर्णप्रसृतत्वं- सुसम्बन्धस्य सतः प्रसरणं अथवाऽसम्बद्धाधिकारित्वातिविस्तरयोरभावः 16 अन्योऽन्यप्रगृहीतत्वं- परस्परेण Oत्तमस्थानकं (मु०) 0 विमुक्तं (मु०)10 शब्दं (मु०)। 0 मालकोशादि० (मु०)। // 111 //