________________ श्रीअभय० सूत्रम् 35 ३५समवायः वचनगुणादिः // 110 // श्रीसमवायाङ्गं यत्रापि च देशे तओ तओ त्ति तत्र तत्रापि च पञ्चविंशतौ योजनेषु ईतिः- धान्याधुपद्रवकारी प्रचुरमूषकादिप्राणिगण इति सप्तविंशः 27 मारि:- जनमरक इत्यष्टाविंशः 28 स्वचक्रं- स्वकीयराजसैन्यं तदुपद्रवकारिन भवतीति एकोनत्रिंशः 29 एवं वृत्तियुतम् परचक्रं- परराजसैन्यमिति त्रिंशः 30 अतिवृष्टिः- अधिकवर्ष इत्येकत्रिंशः 31 अनावृष्टिः- वर्षणाभाव इति द्वात्रिंशः 32 दुर्भिक्ष- दुष्काल इति त्रयस्त्रिंशः 33 उप्पाइया वाहि त्ति उत्पाता:- अनिष्टसूचका रुधिरवृष्ट्यादयस्तद्धेतुका येऽनास्ते औत्पातिकास्तथा व्याधयो- ज्वराद्यास्तदुपशमः-अभाव इति चतुस्त्रिंशत्तमः 34 / अत्र च पच्चाहरओ इत आरभ्य। येऽभिहितास्ते प्रभामण्डलंच कर्मक्षयकृताः, शेषा भवप्रत्ययेभ्योऽन्ये देवकृता इति, एते च यदन्यथापिदृश्यन्ते तन्मतान्तरमवगन्तव्यमिति / चक्कवट्टिविजय त्ति चक्रवर्त्तिविजेतव्यानि क्षेत्रखण्डानि उक्कोसपए चोत्तीसं तित्थगरा समुप्पाजंति त्ति समुत्पद्यन्ते सम्भवन्तीत्यर्थः, न त्वेकसमये जायन्ते, चतुर्णामेवैकदा जन्मसम्भवात्, तथाहि- मेरौ पूर्वापरशिलातलयोढ़े द्वे एव सिंहासने भवतोऽतो द्वावेव द्वावेवाभिषिच्यते अतो द्वयोर्द्वयोरेव जन्मेति, दक्षिणोत्तरयोस्तु क्षेत्रयोस्तदानीं दिवससद्भावात् न भरतैरवतयोर्जिनोत्पत्तिरर्द्धरात्र एव जिनोत्पत्तेरिति, पढमे त्यादि प्रथमायां पृथिव्यां त्रिंशन्नरकावासानां लक्षाणि, पञ्चम्यां त्रीणि षष्ठ्या पञ्चोनं लक्षं सप्तम्यां पञ्च नरकाः, एवं सर्वमीलने चतुस्त्रिंशल्लक्षाणि भवन्तीति / / 34 // पणतीसं सच्चवयणाइसेसा प०, कुंथूणं अरहा पणतीसं धणूई उडे उच्चत्तेणं होत्था, दत्ते णं वासुदेवे पणतीसंधणूई उड़े उच्चत्तेणं होत्था, नंदणे णं बलदेवे पणतीसं धणूई उद्धं उच्चत्तेणं होत्था, सोहम्मे कप्पे सुहम्माए सभाए माणवए चेइयक्खंभे हेट्ठा उवरिं च 8 अद्धतेरस अद्धतेरस जोयणाणि वजेत्ता मज्झे पणतीस जोयणेसुवइरामएसुगोलवट्टसमुग्गएसुजिणसकहाओप०, बितियचउत्थीसु 7 प्रचुरमूषिका० (प्र०)। 0 भरतैरावत० (मु०)। // 110 //