SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ श्रीसमवाया श्रीअभय वृत्तियुतम् // 109 // सूत्रम् 34 34 समवायः जिनातिशयादिः पूर्वेऽष्टादशैव, अमनोज्ञानांशब्दादीनामपकर्षः-अभाव इत्येकोनविंशतितमः१९मनोज्ञानां प्रादुर्भाव इति विंशतितमः 20 पच्चाहरओ त्ति प्रत्याहरतो- व्याकुर्वतो भगवतः हिययगमणीओ त्ति हृदयङ्गमः जोयणनीहारि ति योजनातिनामी स्वर इत्येकविंशः 21 अद्धमागहाए त्ति प्राकृतादीनां षण्णां भाषाविशेषाणां मध्ये या मागधी नाम भाषा 'रसोर्लशौ मागध्या' मित्यादिलक्षणवती सा असमाश्रितस्वकीयसमग्रलक्षणाऽर्द्धमागधीत्युच्यते, तया धर्ममाख्याति, तस्या एवातिकोमलत्वादिति द्वाविंशः 22 भासिज्जमाणी ति भगवताऽभिधीयमाना आरियमणारियाणं ति आर्यानार्यदेशोत्पन्नानां द्विपदा- मनुष्याश्चतुष्पदा- गवादयः मृगा आटव्याः पशवो ग्राम्याः पक्षिणः प्रतीताः सरीसृपा- उरःपरिसप्र्पा भुजपरिसाश्चेति, तेषां किं?- आत्मन आत्मनःआत्मीयया आत्मीययेत्यर्थः, भाषातया- भाषाभावेन परिणमतीति सम्बन्धः, किम्भूताऽसौभाषा? इत्याह- हितं- अभ्युदयः शिवं- मोक्षः सुखं-श्रवणकालोद्भवमानन्दं ददातीति हितशिवसुखदेति त्रयोविंशः 23 पुचबद्धवेरे त्ति पूर्व- भवान्तरेऽनादिकाले वा जातिप्रत्ययं बद्धं-निकाचितं वैरं- अमित्रभावो यैस्ते तथा, तेऽपिचासतामन्ये देवा वैमानिका असुरा नागाश्च- भवनपति-0 विशेषाः सुवर्णाः-शोभनवर्णोपेतत्वाद्ध्योतिष्का यक्षराक्षसकिन्नराः किंपुरुषा व्यन्तरभेदाः गरुडा- गरुडलाञ्छनत्वात् सुपर्णकुमारा भवनपतिविशेषाः, गन्धर्वा महोरगाश्च व्यन्तरविशेषा एव, एतेषां द्वन्द्वः, पसंतचित्तमाणसा प्रशान्तानि- शमं गतानि चित्राणिरागद्वेषाद्यनेकविधविकारयुक्ततया विविधानि मानसानि-अन्तःकरणानि येषां ते प्रशान्तचित्रमानसा धर्म निशामयन्ति इति / चतुर्विंशः 24 बृहद्वाचनायामिदमन्यदतिशयद्वयमधीयते, यदुत- अन्यतीर्थिकप्रावचनिका अपि च णं वन्दन्ते भगवन्तमिति गम्यते इति पञ्चविंशः 25 आगताः सन्तोऽर्हतः पादमूले निष्प्रतिवचना भवन्ति इति षड्डेिशः 26 जओ जओऽवि य णं ति यत्र (r) येषां ते (मु०)। 0 चित्त (मु०)। // 109 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy