________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 108 // सूत्रम् 34 ३४समवायः जिनातिशयादिः शेषध्वजापेक्षयाऽतिमहत्त्वादिन्द्रश्चासौ ध्वजश्च इन्द्रध्वज इति विग्रहः, इन्द्रत्वसूचको ध्वज इति वा पुरओ त्ति जिनस्याग्रतो गच्छतीति दशमः 10 चिट्ठन्ति वा निसीयन्ति व त्ति तिष्ठन्ति गतिनिवृत्त्या निषीदन्ति- उपविशन्ति तक्खणादेव त्ति तत्क्षणमेव अकालहीनमित्यर्थः, पत्रैः संछन्नः पत्रसंछन्नः, पत्रसंछन्न इति वक्तव्ये प्राकृतत्वात् संछन्नपत्र इत्युक्तं स चासौ पुष्पपल्लवसमाकुलश्चेति विग्रहः, पल्लवा:- अङ्कराः, सच्छत्रः सध्वजः सघण्टः सपताकोऽशोकवरपादप इत्येकादशः 11 ईसि त्ति ईषद्अल्पं पिट्ठओ त्ति पृष्ठतः पश्चाद्भागे मउडट्ठाणंमि त्ति मस्तकप्रदेशे तेजोमण्डलं- प्रभापटलमिति द्वादशः 12 बहुसमरमणीयो भूमिभाग इति त्रयोदशः 13 अहोसिर त्ति अधोमुखाः कण्टका भवन्तीति चतुर्दशः १४ऋतवोऽविपरीताः कथमित्याह-सुखस्पर्शा भवन्तीति पञ्चदशः 15 योजनं यावत् क्षेत्रशुद्धिःसंवर्तकवातेनेति षोडशः 16 जुत्तफुसिएणं ति उचितबिन्दुपातेन निहयरयरेणुयं ति वातोत्खातमाकाशवर्ति रजो भूवर्ती तु रेणुरिति गन्धोदकवर्षाभिधानः सप्तदशः 17 जलस्थलजं यद्भास्वरं प्रभूतं च कुसुमं तेन वृन्तस्थायिना-ऊर्द्धमुखेन दशार्द्धवर्णेन- पञ्चवर्णेन जानुनोरुत्सेधस्य- उच्चत्वस्य यत्प्रमाणं तदेव प्रमाणं यस्य स जानूत्सेधप्रमाणमात्रः पुष्पोपचार:- पुष्पप्रकर इत्यष्टादशः 18 तथा कालागरुपवरकुंदुरुक्कतुरुक्कधूवमघमघेतगन्धुद्धयाभिरामे भवइ त्ति कालागरुश्वगन्धद्रव्यविशेषः प्रवरकुन्दुरुक्कं च-चीडाभिधानं गन्धद्रव्यं तुरुष्कं च-शिल्हकाभिधानं गन्धद्रव्यमिति द्वन्द्वस्तत एतल्लक्षणो यो धूपस्तस्य मघमघायमानो- बहलसौरभ्यो यो गन्ध उद्धृतः- उद्भूतस्तेनाभिरामं- अभिरमणीयं यत्तत्तथा स्थानं-निषदनस्थानमिति प्रक्रम इत्येकोनविंशतितमः 19 तथा उभयो पासिं च णं अरहताणं भगवंताणं दुवे जक्खा कडयतुडियथंभियभुया चामरुक्खेवं करेंति त्ति कटकानि- प्रकोष्ठाभरणविशेषाः त्रुटितानि- बाह्वाभरणविशेषाः, तैरतिबहुत्वेन स्तम्भिताविव स्तम्भितौ भुजौ ययोस्तौ तथा यक्षौ- देवाविति विंशतितमः 20, बृहद्वाचनायामनन्तरोक्तमतिशयद्वयं नाधीयते, अतस्तस्यां // 108 //