________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 104 // अथ त्रयस्त्रिंशत्स्थानकम्, तत्र आयः-सम्यग्दर्शनाद्यवाप्तिलक्षणस्तस्य शातनाः-खण्डना निरुक्तादाशातनाः, तत्र शैक्षः सूत्रम् 33 अल्पपर्यायो रात्निकस्य-बहुपर्यायस्य आसन्नं-आसत्त्या यथा रजोऽञ्चलादि तस्य लगति तथा गन्ता भवतीत्येवमाशतना शैक्षस्ये ३३समवायः आशातनादिः त्येवं सर्वत्र, पुरओत्ति अग्रतो गन्ता भवति, सपक्खे त्ति समानपक्षं- समपार्वं यथा भवति समश्रेण्या गच्छतीत्यर्थः, ठिच्च त्ति स्थाता- आसिता भवति, यावत्करणाद्दशाश्रुतस्कन्धानुसारेणान्या इह द्रष्टव्याः, ताश्चैवमर्थतः- आसन्नं पुरः पार्श्वतः स्थानेन तिम्रो ३निषदनेन च तिम्र:३तथा विचारभूमौ गतयोः पूर्वतरमाचमतः शैक्षस्याशातना 10 एवं पूर्वं गमनागमनमालोचयतः ११तथा रात्रौकोजागर्तीति पृष्टेरात्निकेन तद्वचनमप्रतिशृण्वतः१२ रात्निकस्य पूर्वमालपनीयंकञ्चन अवमस्य पूर्वतरमालपतः 13 अशनादि लब्धमपरस्य पूर्वमालोचयतः 14 एवमन्यस्योपदर्शयतः 15 एवं निमन्त्रयतः 16 रालिकमनापृच्छ्यान्यस्मै भक्तादि ददतः१७ स्वयं प्रधानतरं भुञानस्य 18 क्वचित् प्रयोजने व्याहरतो रात्निकस्य वचोऽप्रतिशृण्वतः१९रात्निकं प्रति तत्समक्षं वा बृहता शब्देन बहुधा भाषमाणस्य 20 व्याहृतेन मस्तकेन वन्दे इति वक्तव्ये किं भणसीति ब्रुवाणस्य 21 प्रेरयति रालिके कस्त्वं प्रेरणायामिति वदतः 22 आर्य! ग्लानं किं न प्रतिचरसीत्याधुक्ते त्वं किं न तं प्रतिचरसीत्यादि भणतः 23 धर्म कथयति गुरावन्यमनस्कतां भजतोऽननुमोदयत इत्यर्थः 24 कथयति गुरौ न स्मरसीति वदतः 25 धर्मकथामाच्छिन्दतः 26 भिक्षावेला वर्त्तते इत्यादिवचनतः पर्षदं भिन्दानस्य 27 गुरुपर्षदोऽनुत्थितायास्तथैव व्यवस्थिताया धर्मं कथयत: 28 गुरोः संस्तारकं पादेन घट्टयतः 29 गुरोः संस्तारके निषीदतः 30 उच्चासने निषीदतः 31 समासनेऽप्येवं 32 त्रयस्त्रिंशत्तमा सूत्रोक्तैव,रात्निकस्यालपतस्तत्रगत एव- आसनादिस्थित एव प्रतिशृणोति, आगत्य हि प्रत्युत्तरं देयमिति शैक्षस्याशातनेतिल ®त्तमं स्थानकं (मु०)। 0 दिस्तस्य (मु०)। 0 तिम्रोऽत्र निषीदनेन (मु०)। // 104 //