SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ | श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 105 // सूत्रम् 33 33 समवायः आशातनादिः 33 / तेत्तीसं तेत्तीसं भोम त्ति भौमानि- नगराकाराणि, विशिष्टस्थानानीत्यन्ये, तथा जया णं सूरिए इत्यादि, इह सूर्यस्य मण्डलयोरन्तरं द्वे द्वे योजनेऽष्टचत्वारिंशच्चैकषष्टिभागाः, एतद्द्विगुणं पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागाः, एतावता हीनं विष्कम्भतः सर्वबाह्यमण्डलाद्वितीयं मण्डलं भवति, ततश्च वृत्तक्षेत्रपरिधिगणितन्यायेन परिधितः सप्तदशभिर्योजनैरष्टत्रिंशता चैकषष्टिभागैयूंनं द्वितीयमण्डलं सर्वबाह्यमण्डलाद्भवति, एवं तृतीयमण्डले एतद्विगुणेन हीनं भवति, तथाहि-तद्विष्कम्भत एकादशभिर्योजनैवभिश्चैकषष्टिभागैःपर्यन्तिमाद्धीनं भवति, परिधितस्तु पञ्चत्रिंशता योजनैः पञ्चदशभिश्चैकषष्टिभागैन्यूनं भवति, तच्च त्रीणि लक्षाणि अष्टादश सहस्राणि द्वे शते एकोनाशीत्युत्तरे षट्चत्वारिंशच्चैकषष्टिभागा इति, तथा अन्तिममण्डलान्मण्डले मण्डले द्वाभ्यां मुहूर्तस्यैकषष्टिभागाभ्यां दिनवृद्धिर्भवति, तथा च तृतीये मण्डले यदा सूर्यश्चरति तदा द्वादश मुहर्ताश्चत्वारश्चैकषष्टिभागा मुहूर्तस्य दिनप्रमाणं भवति, तदर्द्ध चैकषष्टिभागीकृतेनाष्टषष्ट्यधिकशतत्रयलक्षणेन, स्थूलगणितस्य विवक्षितत्वात् परित्यक्तांशे 318279 तृतीयमण्डलपरिधौ गुणिते सति एकषष्ट्या च षष्टिगुणितया भागे हृते यल्लभ्यते तत्तृतीयमण्डले चक्षुःस्पर्शप्रमाणंभवति, तच्च द्वात्रिंशत्सहस्राण्येकोत्तराणि 32001 अंशानामेकषष्ट्या भागलब्धाश्चैकोनपञ्चाशत्वष्टिभागा योजनस्य त्रयोविंशतिश्चैकषष्टिभागा योजनषष्टिभागस्य एतत्तृतीयमण्डले चक्षुःस्पर्शस्य प्रमाणं जम्बूद्वीपप्रज्ञप्त्यामुपलभ्यते, इह तु यदुक्तं त्रयस्त्रिंशत्किञ्चिन्न्यूना, तत्र सातिरेकस्य योजनस्यापि न्यूनसहस्रता विवक्षितेति सम्भाव्यते, चतुर्दशे मण्डले पुनरिदं यथोक्तमेव प्रमाणं भवति, प्रतिमण्डलं योजनस्य चतुरशीत्याः साधिकायाः प्रथममण्डलमाने प्रक्षेपणादिति // 33 // 0 षष्ट्या भागे हृते लब्धाश्चेको (मु०)।0रेकयोज० (मु०)। // 105 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy