SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ३२समवायः श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 102 // इत्यर्थः 11, सम्मदिट्ठित्ति सम्यग्दृष्टिः-सम्यग्दर्शनशुद्धिः 12, समाही यत्ति समाधिश्च-चेतःस्वास्थ्यं 13, आयारे विणओवए. सूत्रम् 32 त्ति द्वारद्वयं तत्राचारोपगतः स्यात् न मायां कुर्यादित्यर्थः 14, विनयोपगतो भवेत् न मानं कुर्यादित्यर्थः 15 // 2 // धिइमई य योगसंग्रहादिः त्ति धृतिप्रधाना मतिधृतिमति:- अदैन्यं 16, संवेगे त्ति संवेग:- संसारभयं मोक्षाभिलाषो वा 17, पणिहि त्ति प्रणिधिःमाया सान कार्येत्यर्थः 18, सुविहित्ति सुविधिः सदनुष्ठानं 19, संवर:- आश्रवनिरोधः 20, अत्तदोसोवसंहारे त्ति स्वकीयदोषस्य निरोधः 21, सव्वकामविरत्तय त्ति समस्तविषयवैमुख्यं 22 ॥३॥पञ्चक्खाणे त्ति प्रत्याख्यानं मूलगुणविषयं 23, उत्तरगुणविषयं च 24, विउस्सग्गे त्ति व्युत्सर्गो द्रव्यभावभेदभिन्नः 25, अप्पमाए त्ति प्रमादवर्जनं 26, लवालवे त्ति कालोपलक्षणं तेन क्षणे क्षणे सामाचार्य्यनुष्ठानं कार्य 27, झाणसंवरजोगे यत्ति ध्यानमेव संवरयोगो ध्यानसंवरयोगः 28, उदए मारणंतिए त्ति मारणान्तिकेऽपि वेदनोदये न क्षोभः कार्यः 29 // 4 // संगाणं च परिण्ण त्ति सङ्गानां ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभेदभिन्ना परिज्ञा कार्या 30, पायच्छित्तकरणे इ य त्ति प्रायश्चित्तकरणं च कार्य 31, आराहणा य मरणंते त्ति आराधना च मरणान्ते / मरणरूपोऽन्तो मरणान्तस्तत्रेत्येते द्वात्रिंशद्योगसंग्रहा इति ३२॥५॥इन्द्रसूत्रे यावत्करणात् वेणुदेवे वेणुदाली हरिक्ते हरिस्सहे अग्णिसीहे अग्गिमाणवे पुण्णे वसिढे जलकंते जलप्पहे अमियगई अमियवाहणे वेलंबे पहजणे इति दृश्यम्, पुनः यावत्करणात् / 'माहिंदे बंभे लंतए सुक्के सहस्सारे' त्ति द्रष्टव्यम्, इह षोडशानां व्यन्तरेन्द्राणां षोडशानामेव वाणपण्यिकादीन्द्राणामल्पर्द्धिकत्वेनाविवक्षितत्वादसङ्ख्यातानामपि च चन्द्रसूर्याणां जातिग्रहणेन द्वयोरेव विवक्षितत्वाद् द्वात्रिंशदिन्द्रा उक्ता इति, कुन्थुनाथस्य द्वात्रिंशदधिकानि द्वात्रिंशत् केवलिशतान्यभूवन्, द्वात्रिंशद्विधं नाट्यमभिनयविषयवस्तुभेदाद्यथा राजप्रश्नकृताभिधान (r) चाणपन्निका० (प्र०)।
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy