________________ श्रीसमवायात श्रीअभय० वृत्तियुतम् // 101 // सूत्रम् 32 32 समवायः योगसंग्रहादिः अत्थेगइयाणं बत्तीसंपलिओवमाई ठिई प०, जे देवा विजयवेजयन्तजयन्तअपराजियविमाणेसु देवत्ताए उववण्णा तेसिणं देवाणं अत्थेगइयाणं बत्तीसंसागरोवमाई ठिई प०, ते णं देवा बत्तीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसिणं देवाणं बत्तीसवाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगइया भवसिद्धिया जीवा जे बत्तीसाए भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति // सूत्रम् 32 // द्वात्रिंशत्स्थानकमपिव्यक्तम्, नवरंयुज्यन्ते इति योगा:-मनोवाक्कायव्यापाराः ते चेह प्रशस्ता एव विवक्षितास्तेषां शिष्याचार्यगतानामालोचनानिरपलापादिना प्रकारेण संग्रहणानि संग्रहाः प्रशस्तयोगसंग्रहाः प्रशस्तयोगसंग्रहनिमित्तत्वादालोचनादय एव तथोच्यन्ते, ते च द्वात्रिंशद्भवन्ति, तदुपदर्शकं श्लोकपञ्चकं आलोयणे त्यादि, अस्य गमनिका- तत्र 'आलोयण'त्ति मोक्षसाधकयोगसंग्रहाय शिष्येणाचार्यायालोचना दातव्या 1, निरवलावे त्ति आचार्योऽपि मोक्षसाधकयोगसंग्रहायैव दत्तायामालोचनायां निरपलापः स्यात्, नान्यस्मै कथयेदित्यर्थः 2, आवईसुदढधम्मय त्ति प्रशस्तयोगसंग्रहाय साधुनाऽऽपत्सुद्रव्यादिभेदासुदृढधर्मता कार्या, सुतरांतासुदृढधर्मणा भाव्यमित्यर्थः 3, अणिस्सिओवहाणे यत्ति शुभयोगसंग्रहायैवानिश्रित च-तदन्यनिरपेक्षमुपधानंच-तपोऽनिश्रितोपधानं परसाहाय्यानपेक्षंतपो विधेयमित्यर्थः 4, सिक्ख त्ति योगसंग्रहाय शिक्षाऽऽसेवितव्या,साच सूत्रार्थग्रहणरूपा प्रत्युपेक्षाद्यासेवनात्मिका चेति द्विधा 5, निप्पडिकम्मय त्ति तथैव निष्प्रतिकर्मता शरीरस्य विधेया ६॥१॥अण्णायय त्ति तपसोऽज्ञातता कार्या, यशःपूजाद्यर्थित्वेनाप्रकाशयद्भिस्तपः कार्यमित्यर्थः 7, अलोभे यत्ति अलोभता विधेया 8, तितिक्ख त्ति तितिक्षा परीषहादिजयः 9, अज्जवेत्ति आर्जवं-ऋजुभावः१०, सुइ त्ति शुचिःसत्यं संयम (c) साधन० (मु०)। (r) दृढधर्मिणा (मु०)। 01 //