________________ श्रीसमवाया श्रीअभय वृत्तियुतम् // 95 // सूत्रम् 30 30 समवायः मोहनीयस्थानादिः / तहेवाणतणाणीणं, जिणाणं वरदंसिणं / तेसिं अवन्निम बाले, महामोहं पकुव्वई / यथैव प्राक्तनं मोहनीयस्थानं तथैवेदमपि, अनन्तज्ञानिनां ज्ञानस्यानन्तविषयत्वेन अक्षयत्वेन वा जिनानां अर्हतां वरदर्शिनां क्षायिकदर्शनित्वात् तेषां ये ज्ञानाद्यनेकातिशयसम्पदुपेतत्वेन भुवनत्रये प्रसिद्धाः अवर्णः अवर्णवादो वक्तव्यत्वेन यस्यास्ति सोऽवर्णवान्, यथा नास्ति कश्चित् सर्वज्ञो, ज्ञेयस्यानन्तत्वात्, उक्तं च-अज्जवि धावइ नाणं अज्जवि य अणंतओ अलोगोत्ति / अज्जवि न कोइ विउहं पावन्ति सव्वन्नुयं जीवो // 1 // अह पावति तो संतो होइ अलोओ न चेयमिट्ठ ति त्ति / अदूषणं चैतद्, उत्पत्तिसमय एव केवलज्ञानं युगपल्लोकालोको प्रकाशयदुपजायते, यथाऽपवरकान्तर्वर्त्तिदीपकलिका अपवरकमध्यमित्यभ्युपगमादिति, बालः-अज्ञो महामोहं प्रकरोतीति एकोनविंशतितमं 19 / नेयाउयस्स मग्गस्स, दुढे अवयरइ बहु / तं तिप्पयंतो भावेइ, महामोहं पकुव्वई / / नैयायिकस्य न्यायमनतिक्रान्तस्य मार्गस्य सम्यग्दर्शनादेः मोक्षपथस्य दुष्टो द्विष्टो वा अपकरोति अपकारं करोतीति, बहु अत्यर्थं पाठान्तरेणापहरति बहुजनं विपरिणमयतीति भावः, तं मार्ग तिप्पयंतो त्ति निन्दन् भावयति- निन्दया द्वेषेण वा वासयति आत्मानं परं च यः स महामोहं प्रकरोतीति विंशतितमं 20 / आयरियउवज्झाएहिं, सुयं विणयं च गाहिए। ते चेव खिंसई बाले, महामोहं पकुव्वई॥ आचार्योपाध्यायैयः श्रुतं- स्वाध्यायं विनयं च- चारित्रं ग्राहितः शिक्षितस्तानेव खिंसति निन्दति- अल्पश्रुता एते इत्यादि। ज्ञानतः अन्यतीर्थिकसंसर्गकारिण इत्यादि दर्शनतः मन्दधर्माणः पार्श्वस्थादिस्थानवर्त्तिन इत्यादि चारित्रतः, यः स एवंभूतो। बालो महामोहं प्रकरोतीत्येकविंशतितमं 21 / आयरियउवज्झायाणं, सम्मं नो पडितप्पइ / अप्पडिपूजए थद्धे, महामोहं पकुव्वई / / O अद्यापि धावति ज्ञानं अद्याप्यनन्तोऽलोकोऽपि। अद्यापि न कोऽपि व्यूहं प्राप्नोति सर्वज्ञतां जीवः // 1 // अथ प्राप्नोति तदा सान्तोऽलोको भवेत् न चेदमिष्टमिति। 0 मध्यप्रकाशस्वरूपेत्यभ्यु० (मु०)। // 95 // P